2023-08-28 09:05:38 by Bharadwajraki
This page has been fully proofread twice.
तदनु च परमानन्दघनीभावपरिणाममयी मातृकावर्णसम्पन्नमकुटादिचरणान्तसर्वाङ्गसुन्दरी[^१] पतिदेवता धर्मनियन्त्रणेन पतिमुखलक्ष्यैकपातिनीभिरपि कटाक्षवृत्तिभिः परिसरनिष्यन्दमात्रपरिपोषितजगत्त्रयी, जातजायमानजनिष्यमाणरूपापि जातरूपैकमयीव लक्ष्यमाणा, धर्ममयी धार्मिकेषु, विज्ञानमयी विप्रेषु, पराक्रममयी बाहुजेषु, सम्पन्मयी राजसु, साहसमयी शरारुषु, कारुण्यमयी भक्तेषु, कामकलामयी परिणेतरि, विजयपताकिका जनार्दनस्य, जीविका मकर-
[commentary]
तस्याः लक्ष्म्याः परिवारसद्भावे किं वक्तव्यमिति भावः ॥ तदनु चेति ॥ परमस्सर्वोत्कृष्टो य आनन्दः तस्य घनीभावः कठिनीभवनमित्यर्थः । 'कठिनाधिकचन्द्रेषु वाद्यमध्यमनृत्तयोः । मुस्तामुद्गरमेघेषु त्रिषु क्लीबे पुमान् घनः' इति भास्करः । तस्य यः परिणामः परिणतिः । परिपाक इति यावत् । तन्मयी तत्स्वरूपेत्यर्थः । आनन्दमूर्तिरिति भावः । मातृकावर्णाः अकाराद्यक्षराणि, मन्त्रशास्त्रे एतेषामक्षराणां तथा व्यवहारात् । तैस्सम्पन्ना च सा मकुटादिचरणान्तसर्वाङ्गेषु शिर आरभ्य पादान्तावयवेषु सुन्दरी चेति कर्मधारयः । पञ्चाशद्वर्णमयसुन्दरमूर्तिरिति भावः । तथा चोक्तम् 'पञ्चाशद्वर्णमयी परदेवता हि मे स्फुरति' इति । पतिर्देवता उपास्यमूर्तिर्यस्यास्सा तथाभूता धर्मेण नियन्त्रणं नियमन सन्मार्गानुल्लङ्घनमिति यावत् । तेन पत्युर्मुखमेव लक्ष्यं तस्मिन् एकपातिनीभिः अत्यन्तं पतन्तीभिरपि कटाक्षाणां वृत्तयः ताभिः । परिसरः समीपदेशः । 'पर्यन्तभूः परिसरः' इत्यमरः । तस्मिन्निष्यन्दमात्रं तेन परिपोषिता अभिवर्धिता जगतां लोकानां त्रयी त्रितयं यस्यास्सा तथाभूता । जातान्युत्पन्नानि जायमानानि इदानीमुद्भवन्ति जनिष्यमाणानि कालान्तरे भविष्यन्ति च यानि वस्तूनि तेषां स्वरूपापि जातरूपैकमयी जातैकवस्तुमयीव लक्ष्यमाणा परिदृश्यमाना । त्रिविधवस्तुरूपायाः एकविधवस्तुरूपत्वे विरोधः, तदाभासस्तु जातरूपं सुवर्णं तदेकमयी वेति न विरोधः । 'चामीकरं जातरूपम्' इत्यमरः । धार्मिकेषु धर्मनिष्ठेषु कर्ममयी सुकृतमयीत्यर्थः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । विप्रेषु ब्राह्मणेषु विज्ञानमयी शास्त्रशिल्पादिज्ञानरूपेत्यर्थः । 'मोक्षेघी धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः' इत्यमरः । बाहुजाः क्षत्रियाः, 'बाहुजः क्षत्रियो विराट्' इत्यमरः । तेषु पराक्रम-
[^१] "अकारादिक्षकारान्तमातृकावर्णरूपिणी" -- इति देवीनामाप्यत्रानुसन्धेयम् ॥
[commentary]
तस्याः लक्ष्म्याः परिवारसद्भावे किं वक्तव्यमिति भावः ॥ तदनु चेति ॥ परमस्सर्वोत्कृष्टो य आनन्दः तस्य घनीभावः कठिनीभवनमित्यर्थः । 'कठिनाधिकचन्द्रेषु वाद्यमध्यमनृत्तयोः । मुस्तामुद्गरमेघेषु त्रिषु क्लीबे पुमान् घनः' इति भास्करः । तस्य यः परिणामः परिणतिः । परिपाक इति यावत् । तन्मयी तत्स्वरूपेत्यर्थः । आनन्दमूर्तिरिति भावः । मातृकावर्णाः अकाराद्यक्षराणि, मन्त्रशास्त्रे एतेषामक्षराणां तथा व्यवहारात् । तैस्सम्पन्ना च सा मकुटादिचरणान्तसर्वाङ्गेषु शिर आरभ्य पादान्तावयवेषु सुन्दरी चेति कर्मधारयः । पञ्चाशद्वर्णमयसुन्दरमूर्तिरिति भावः । तथा चोक्तम् 'पञ्चाशद्वर्णमयी परदेवता हि मे स्फुरति' इति । पतिर्देवता उपास्यमूर्तिर्यस्यास्सा तथाभूता धर्मेण नियन्त्रणं नियमन सन्मार्गानुल्लङ्घनमिति यावत् । तेन पत्युर्मुखमेव लक्ष्यं तस्मिन् एकपातिनीभिः अत्यन्तं पतन्तीभिरपि कटाक्षाणां वृत्तयः ताभिः । परिसरः समीपदेशः । 'पर्यन्तभूः परिसरः' इत्यमरः । तस्मिन्निष्यन्दमात्रं तेन परिपोषिता अभिवर्धिता जगतां लोकानां त्रयी त्रितयं यस्यास्सा तथाभूता । जातान्युत्पन्नानि जायमानानि इदानीमुद्भवन्ति जनिष्यमाणानि कालान्तरे भविष्यन्ति च यानि वस्तूनि तेषां स्वरूपापि जातरूपैकमयी जातैकवस्तुमयीव लक्ष्यमाणा परिदृश्यमाना । त्रिविधवस्तुरूपायाः एकविधवस्तुरूपत्वे विरोधः, तदाभासस्तु जातरूपं सुवर्णं तदेकमयी वेति न विरोधः । 'चामीकरं जातरूपम्' इत्यमरः । धार्मिकेषु धर्मनिष्ठेषु कर्ममयी सुकृतमयीत्यर्थः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । विप्रेषु ब्राह्मणेषु विज्ञानमयी शास्त्रशिल्पादिज्ञानरूपेत्यर्थः । 'मोक्षे
[^१] "अकारादिक्षकारान्तमातृकावर्णरूपिणी" -- इति देवीनामाप्यत्रानुसन्धेयम् ॥