2023-08-28 08:50:49 by Bharadwajraki
This page has been fully proofread twice.
प्रभेव फणिराजस्य, काचन कान्तिधोरणी, सम्मूर्च्छिता दुग्धकल्लोलेषु सन्ध्येव चन्द्रातपे, सफलीचकार कमलाक्षतां कमलाक्षस्य । तत्र च ताळवृन्तचामरताम्बूलकरङ्क(क)कनकालुकादिपरिकरपाणयो भावानुभावदेवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्रनिर्वर्णननिर्वृतानि लज्जयन्त्यो नयनानि नाकसदाम्, प्रादुर्बभूवुरग्रतः परिवारशक्तयः कमलालयायाः ।
[commentary]
ह्लाद इति यावत् । तं कर्तुं शीलं यस्यास्सा तथाभूता फणिराजस्य शेषस्य सागरस्समुद्रस्तस्मिन् ये आवर्ताः अम्भोभ्रमाः त एव विवराणि रन्ध्राणि । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । 'सुषिरं विवरं बिलम्' इति च । तेभ्यस्समुत्थिता फणानां सहस्रे ये मणयो रत्नानि तेषां या प्रभा दीप्तिस्सैवेत्यर्थः । दुग्धकल्लोलेषु क्षीरतरङ्गेषु संमूर्च्छिता सम्यक् प्रसृता । 'मुर्च्छा मोहसमुच्छ्राययोः' इति धातोः कर्तरि क्तप्रत्ययः । काचन कान्तिधोरणी कान्त्यतिशयः कमलाक्षस्य कमले इव अक्षिणी यस्य स तस्य भावस्तत्ता इयमुक्तकमलाक्षता पूर्वमेव महेश्वरसाक्षात्कारात्सफला सञ्जाता । इदानीन्तु कमलायां महालक्ष्म्यां अक्षिणी यस्य स इति विग्रहः । तस्य भावस्तत्ता तामेतामपि कमलाक्षतामद्य सफलीचकारेत्यर्थः । श्रीहरेः तत्कान्तिदर्शनानन्तरं महालक्ष्म्यां दृष्टिरभूदिति भावः ॥ तत्रेति ॥ तत्र तस्मिन्काले ताळवृन्तं व्यजनं तच्च चामरं प्रकीर्णकं तच्च ताम्बूलं च करकः कमण्डलुविशेषः स च कनकालुका भृङ्गारुः, सा च ता एव आदयो येषां ते तथाभूताः ये परिकराः उपकरणानि, तैस्सहिताः सताळवृन्तचामरताम्बूलकरककनकालुकादिपरिकराः तथाभूताः पाणयो यासां तास्तथाभूताः । 'व्यजनं ताळवृन्तकम्' 'चामरं तु प्रकीर्णकम्' 'कमण्डलौ च करक' इति सर्वत्र अमरः । ताम्बूलकरङ्कताम्बूलकरण्डेति पाठे ताम्बूलदानोचितवर्तुलपात्रविशेष इत्यर्थो बोध्यः । किञ्च
शरीरबन्धेन देहबन्धेन परिणताः कालविशेषादेवंरूपतामापन्ना इत्यर्थः । मूर्तिमत्य इति भावः । शृङ्गारस्य शृङ्गाररसस्येत्यर्थः । विभावानुभावौ स्थायिभावोपचायकभावविशेषौ तयोर्या देवताः अभिमानिदेवताः ता इव स्थिताः रम्भादीनां अप्सरसां यद्रामणीयकं सौन्दर्यं तन्मात्रस्य निर्वर्णनं दर्शनस्मरणादिकम् । 'निर्वर्णनं तु निध्यानम्' इत्यमरः । तेन निर्वृतानि सुखितानि नाकसदां देवानां नयनानि लज्जयन्त्यः लज्जितानि कुर्वन्त्यः कमलालयाया महालक्ष्म्याः परिवारशक्तयः आवरणदेवताः अग्रतः प्रथमतः प्रादुर्बभूवुः । यस्याः कटाक्षमात्रादेव पुंसः परिवारा भवन्ति