2023-06-05 16:40:44 by ambuda-bot
This page has not been fully proofread.
३४६
नीलकण्ठविजये सव्याख्याने
प्रमेव फणिराजस्य, काचन कान्तिधोरणी, सम्मूच्छिता दुग्धकल्लोलेषु
सन्ध्येव चन्द्रातले सफलीचकार कमलाक्षतां कमलाक्षस्य । तत्र च
ताळवृन्तचा मरताम्बूलकरंङ्क (क) कनका लुका दिपरिकरपाणयो भावानुभाव-
देवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्र-
निर्वर्णन निर्वृतानि लजयन्त्यो नयनानि नाकसदाम्, प्रादुर्बभूवरग्रतः
परिवारशक्तयः कमलालयायाः ।
हाद इति यावत् । तं कर्तुं शीलं यस्यास्सा तथाभूता फणिराजस्य शेषस्य साग-
रस्समुद्रस्तस्मिन् ये आवर्ता: अम्भोमाः त एव विवराणि रन्ध्राणि । 'स्यादा-
वर्तोऽम्भसां भ्रमः' इत्यमरः । 'सुषिरं विवरं बिलम्' इति च । तेभ्यस्समुत्थिता
फणानां सहस्रे ये मर्णयो रत्नानि तेषां या प्रभा दीप्तिस्सैवेत्यर्थः । दुग्धकल्लोलेषु
क्षीरतरङ्गेषु संमूच्छिता सम्यक् प्रसृता । 'मुर्च्छा मोहसमुच्छ्राययोः' इति धातोः
कर्तरि क्तप्रत्ययः । काचन कान्तिधोरणी कान्त्यतिशय कमलाक्षस्य कमले इव
अक्षिणी यस्य स तस्य भावस्तत्ता इयमुक्तकमलाक्षता पूर्वमेव महेश्वरसाक्षात्का-
सत्सफला सञ्जाता । इदानीन्तु कमलायां महालक्ष्म्यां अक्षिणी यस्य स इति
विग्रहः । तस्य भावस्तत्ता तामेतामपि कमलाक्षतामद्य सफलीचकारेत्यर्थः । श्रीहरे:
तत्कान्तिदर्शनानन्तरं महालक्ष्म्यां दृष्टिरभूदिति भावः ॥ तत्रेति ॥ तत्र तस्मिन्
काले ताळवृन्तं व्यजनं तच्च चामरं प्रकीर्णकं तच्च ताम्बूलं च करकः कमण्ड-
लुविशेषः स च कनकालुका भृङ्गारुः, सा च ता एव आदयो येषां ते तथाभूताः
ये परिकराः उपकरणानि, तैस्सहिताः सताळवृन्तचामरताम्बूलकरककनकालुका-
दिपरिकरा: तथाभूताः पाणयो यासां तास्तथाभूताः । 'व्यजनं ताळवृन्तकम्'
'चामरं तु प्रकीर्णकम्' 'कमण्डलौ च करक' इति सर्वत्र अमरः । ताम्बूल-
करङ्कताम्बूलकरण्डेति पाठे ताम्बूलदानोचितवर्तुलपात्र विशेष इत्यर्थो बोध्यः । किञ्च
शरीरबन्धेन देहबन्धेन परिणताः कालविशेषादेवरूपतामापन्ना इत्यर्थः । मूर्तिमत्य
इति भावः । शृङ्गारस्य शृङ्गाररसस्येत्यर्थः । विभावानुभावौ स्थायिभावोपचाय-
कभावविशेषौ तयोर्या देवताः अभिमानिदेवताः ता इव स्थिताः रम्भादीनां अप्सर-
सां यद्रामणीयकं सौन्दर्य तन्मात्रस्य निर्वर्णनं दर्शनस्मरणादिकम् । 'निर्वर्णनं तु
निध्यानम्' इत्यमरः । तेन निवृतानि सुखितानि नाकसदां देवानां नयनानि
लज्जयन्त्यः लज्जितानि कुर्वन्त्यः कमलालयाया महालक्ष्म्याः परिवारशक्तयः आवरण-
देवताः अग्रतः प्रथमतः प्रादुर्बभूवुः । यस्याः कटाक्षमात्रादेव पुंसः परिवारा भवन्ति