2023-08-26 07:21:53 by Bharadwajraki
This page has been fully proofread twice.
मन्दंमन्दममन्दचन्दन किरः पस्पन्दिरे मारुताः
कालोन्निद्रकदम्बडम्बरमभूद्येनाङ्गमङ्गं हरेः ॥ १७ ॥
ततश्च समसमयसमुन्मिषत्कनकारविन्दकाननश्रीरिव नयनानन्दसन्दायिनी, समभागयोजितशरदिन्दुकन्दळबालारुणप्रविलापनचाकचक्यलक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवरसमुत्थितफणासहस्रमणि-
[commentary]
वन्तः सारस्पृश इत्यर्थः । 'स्पृशोऽनुदके क्विन्' (३.२.५८) इति क्विन् प्रत्ययः । धारणमहिम्नां लक्ष्म्याः करस्थकमलकुड्मलं विकसितमभूत् तत् कमलस्थगन्धसारग्राहिण इति भावः । अमन्दं यथा चन्दनद्रवशैतल्यं किरन्तीति अमन्दचन्दनकिरः । अत्र चन्दनशब्दः लक्षणया चन्दनद्रवशैतल्यवाचक इति बोध्यम्, एवंविधा ये मारुता वायवः मन्दं मन्दं पस्पन्दिरे ववुरित्यर्थः । तैः शैत्यसौरभ्यमान्द्यलक्षणत्रिविध[^१]गुणविशिष्टवायुभिरित्यर्थः । हरेर्वासुदेवस्य अङ्गमङ्गं प्रत्यवयवमित्यर्थः । 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । कालस्समुचितकाल इत्यर्थः । तेन उन्निद्रः पुष्पितः यः कदम्बः अर्जुनवृक्षः तस्य डम्बर इव डम्बरो गर्वो यस्य तत्तथाभूतम् । 'तथा पुष्पितमुन्निद्रं हसितोन्मीलितानि च' इत्यमरः । 'कदम्बः ककुभोऽर्जुनः' इति च । आसीदभूदित्यर्थः । यथा कदम्बवृक्षः क्रमेण शाखोपशाखासु पुष्पितो भवति -- तथा हरिः निखिलाङ्गेषु रोमाञ्चितोऽभूदिति भावः । तैरङ्गमङ्गं हरेरिति सुपाठः ॥ तत इति ॥ ततः अनन्तरं समसमयः एककालः तस्मिन् समुन्मिषन्ति विकासमानानि कनकारविन्दानि सुवर्णपद्मानि यस्मिन् तत्तथाभूतम् यत्काननं वनं तस्य श्रीरिव नयनानामानन्दसन्दायिनी हर्षजनिकेत्यर्थः । काञ्चनं इदमिति वक्तुमशक्येत्यर्थः । अनिर्वाच्येति यावत् । समौ कळङ्करहितत्वेन सदृशौ भागाववयवौ यस्मिन् कर्मणि तत्तथा समभागं यथा तथा योजिते शरावकपालद्वयवत्सङ्घटिते ये शरदिन्दुकन्दळे ये शरत्कालबालचन्द्रौ तयोर्मध्यदेश इति भावः । बालारुणस्य प्रातःकालसूर्यस्य यत् प्रविलापनं मूषानिष्टप्तद्रवीभूतकांस्यसीसादेवि निष्टप्य द्रवीकृत्य प्रक्षेपणमित्यर्थः । तेन या चाकचक्यलक्ष्मीरिव थालथळ्यरूपकान्तिरिवेत्यर्थः । चमत्कारः चमत्कृतिः विजातीया-
[^१] 'चन्दनकिरः' इति विशेषणात् शैत्यं "सौरभ्यसारस्पृशः" -- इति गन्धः, "मन्दम्मन्दं" -- इति मान्द्यं च वायोस्त्रैगुण्यं विशदीकृतम् ॥