2023-06-05 16:40:44 by ambuda-bot
This page has not been fully proofread.
पश्चमाश्वासः
मन्दमन्दममन्दचन्दन किरः पस्पन्दिरे मारुताः
कोलोन्निद्रकदम्बडम्बरमभूद्येनाङ्गमङ्गं हरेः ॥ १७ ॥
नयनानन्द-
ततःच-समसमयसमुन्मिपत्कनकारविन्दकाननश्रीरिख
समभागयोजितशरदिन्दुकन्दळबालारुणप्रविलापनचाकचक्य-
लक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवरसमुत्थितफणासहस्र मणि-
सन्दायिनी,
'वन्तः सारस्पृश' इत्यर्थः । 'स्पृशोऽनुदके किन्' ( 3-2-58) इति किन् प्रत्ययः ।
धारणमहिम्नां लक्ष्म्याः करस्थकमलकुड्मलं विकसितमभूत् तत् कमलस्थगन्धसार-
ग्रहण इति भावः । अमन्दं यथा चन्दनद्रवशैतल्यं किरन्तीति अमन्दचन्दनकिरः ।
अत्रे चन्दनशब्द: लक्षणया चन्दनद्रवरौत ल्यवाचक इति बोध्यम्, एवंविधा ये मारुता
वायवः मन्द मन्दं पस्पन्दिरे ववुरित्यर्थः । तैः शैत्यसौरभ्यमान्द्यलक्षणत्रिविध -
गुणविशिष्टवायुभिरित्यर्थः । हरेर्वासुदेवस्य अङ्गमङ्ग प्रत्यवयवमित्यर्थः । 'अङ्गं
प्रतीकोऽवयवः' इत्यमरः । कालस्समुचितकाल इत्यर्थः । तेन उन्निद्रः पुष्पितः
३४५
कैदम्ब: अर्जुनवृक्षः तस्य डम्बर इव डम्बरो गर्यो यस्य तत्तथाभूतम् । 'तथा
पुष्पितमुन्निद्रं हसितोन्मीलितानि च ' इत्यमरः । 'कदम्बः ककुभोऽर्जुनः' इति च ।
आसीदभूदित्यर्थः । यथा कदम्बवृक्ष: क्रमेण शाखोपशाखासु पुष्पितो
भवति — तथा हरिः निखिलाङ्गेषु रोमाञ्चितोऽभूदिति भावः । तैरङ्गमङ्गं
हरेप: ॥ तत इति ॥ ततः अनन्तरं समसमयः एककाल:
तस्मिन् समुन्मिषन्तिं विकासमानानि कनकारविन्दानि सुवर्णपद्मानि यस्मिन्
तत्तथीभूतम् यत्काननं वनं तस्य श्रीरिख नयनानामानन्दसन्दायिनी हर्षज निकेत्यर्थः ।
काञ्चन इदमिति वक्तुमशक्येत्यर्थः । अनिर्वायेति यावत् । समौ कळङ्क-
रहितत्वेन सदृशौ भागाववयवौ यस्मिन् कर्मणि तत्तथा समभागं यथा तथा
योजिते शरावकपालद्वयवत्सङ्घटिते ये शरदिन्दुकन्दळे ये शरत्कालबालचन्द्रौ
तयोर्मध्यदेश इति भावः । बालारुणस्य प्रातःकालसूर्यस्य यत् प्रविलापन मूषा-
निष्टप्तद्रवीभूतकांस्यसीसादेवि निष्टप्य द्रवीकृत्य प्रक्षेपणमित्यर्थः । तेन या चाक-
क्यलक्ष्मीरिवं थालथळ्यरूपकान्तिरिवेत्यर्थः । चमत्कारः चमत्कृतिः विजातीया-
1. "चन्दन किरः' इति विशेषणात् शैत्यं "सौरभ्यसारस्पृशः " - इति गन्धः,
'मन्दम्मन्द'' – इति मान्धं च वायोस्त्रैगुण्यं विशदीकृतम् ॥
N--44