This page has been fully proofread twice.

पण्डिता एव प्रणयिनो वारमृगीदृशाम् । अश्वमेधयाजिन इति, अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन इति, रणदुर्मदा इति, अन्नदा वयं अभयदा वयं इति शंसद्भिरपदानानि, सम्पतद्भिरितस्ततोऽपि, अज्ञातमुखैर्जातुचिदवनिवासिभिर्जनैर्बलादपह्रियमाणेषु विमानेषु, आक्रम्यमाणेषु मन्दिरेषु, आकृष्यमाणे च बलादप्सरोगणे, न कश्चिदभिमन्यते ममेदमिति मन्दिराणि विमानानि मणिभूषणानि कळत्राणि वा नगरवासी जनः । किंचेदमपरमदेवतया न सुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषात्कामदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसश्च वाजिन इति सकलपुरविलक्षणं लक्षणम् । अपिच ।
 
[commentary]
 
दिकं, तेन यः उपयोगः तद्विधुरः तद्रहितश्च सन्नस्ति वर्तते । सर्वतोऽप्रतिहतः अबाधितः अनिरूरुद्धः चारस्सञ्चारो येषां तेषाम् । अमृतास्वादेन सुहितानां तृप्तानाम् । पौराणामभ्यवहारेणाहारेण । किं प्रयोजनं न किमपीत्यर्थः । मन्दारादिशाखिषु कल्पवृक्षेषु पुनः अभिलषितानि यानि मणिकनकभूषणाम्बराणि तेषां दातृषु सत्सु । किञ्चित्क्रेतव्यं क्रेयं नास्ति, अत एव विक्रेतव्यञ्च नास्ति । 'क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके । विक्रेयं पणितव्यं च' इत्यमरः । इति । इत्थं पण्यवीथिकाः विपणयः, संज्ञामात्रं नाममात्रं, तस्य शरण्याः रक्षकाः ॥ ॥ किञ्च ॥ निरन्तरं सन्ततं, शिवध्यानं शिवाकारबुद्धिवृत्तिः, तेन निर्धूतानि क्षालितानि कल्मषाणि दुष्कृतानि येषां ते तथोक्ताः । निरतिशयः सर्वोत्कृष्टः यस्तपोविशेषः तत्तदाश्रमोचितस्वाध्यायभिक्षाटनदानातिथिसत्कारादिः, तेन शोषिताः कर्शिताः निस्सारतां प्रापिता इत्यर्थः । वीताः गताः, राग: विषयाभिलाषः स च, भयं शीतोष्णादिभीतिः तच्च, क्रोधः परजिघांसा च, मत्सरः परोत्कर्षासहनं स च, ते येषां ते । विषयेभ्य: स्रक्चन्दनादिभ्यः पराङ्मुखाः विनिवृत्ताः । भुवि परमर्षय इति प्रथां प्रसिद्धिमागताः, पण्डित एव विवेकिन एव, वारमृगीदृशां, प्रणयिनः वल्लभाः, प्रेमभाजनानीति यावत् । अश्वस्य मेघाधा विशसनं यस्मिन्सोऽश्वमेधः, तेन इष्टवन्तः अश्वमेधयाजिनः । अश्वमेधक्रतुकृत इति यावत् । अग्निं चिन्वन्त इत्यग्निचितः, चयनकृत इति यावत् । मासं उपवस्तुं शीलं[^१] येषां
 
[^१] "सुप्यजातौ णिनिस्ताच्छील्ये" (पा. सू. ३.२.७८) इत्यनेन ताच्छील्ये णिनिः ॥