2023-07-07 06:21:18 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  ११
  
  
  
   
  
  
  
  पण्डिता एव प्रणयिनो वारमृगीदृशाम् । अश्वमेधयाजिन इति,
  
  
  
   अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन
  
  
  
   इति, रणदुर्मदा इति, अन्नदा वयं अभयदा वयं इति शंसद्भिरपदानानि,
  
  
  
   सम्पतद्भिरितस्ततोऽपि, अज्ञातमुखैर्जातु चिदव निवासिभिर्जनैर्बलादप-
  
  
  
  हिह्रियमाणेषु विमानेषु, आक्रम्यमाणेषु मन्दिरेषु, आकृष्यमाणे च बला-
  
  
  
  दप्सरोगणे, न कश्चिदभिमन्यते ममेदमिति मन्दिराणि विमानानि
  
  
  
   मणिभूषणानि कळत्राणि वा नगरवासी जनः । किंचेदमपर मदेवतया
  
  
  
   न सुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषात्का-
  
  
  
  मदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसथ वाजिन इति सकल-
  
  
  
  पुरविलक्षणं लक्षणम् । अपिच ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  दिकं, तेन य:यः उपयोग:गः तद्विधुरः तद्रहितश्च सन्नस्ति वर्तते । सर्वतोऽप्रतिहतः
  
  
  
   अबाधित:तः अनिरूद्ध:धः चारस्सञ्चारो येषां तेषाम् । अमृतास्वादेन सुहितानां
  
  
  
   तृप्तानाम् । पौराणामभ्यवहारेणाहारेण । किं प्रयोजनं न किमपीत्यर्थ:थः । मन्दा-
  
  
  
  रादिशाखिषु कल्पवृक्षेषु पुनः अभिलषितानि यानि मणिकनकभूषणाम्बराणि
  
  
  
   तेषां दातृषु सत्सु । किञ्चित्क्रेतव्यं क्रेयं नास्ति, अत एव विक्रेतव्यञ्च नास्ति ।
  
  
  
   ' ऋक्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके । विक्रेयं पणितव्यं च' इत्यमरः ।
  
  
  
   इति । इत्थं पण्यवीथिकाः विपणयः, संज्ञामात्ररं नाममात्रं, तस्य शरण्याः रक्षकाः ॥
  
  
  
   ॥ किञ्च ॥ निरन्तरं सन्ततं, शिवध्यानं शिवाकारबुद्धिवृत्तिः, तेन निर्धूतानि
  
  
  
   क्षालितानि कल्मषाणि दुष्कृतानि येषां ते तथोक्ताः । निरतिशयः सर्वोत्कृष्ट
  
  
  
  टः यस्तपोविशेषः तत्तदाश्रमोचितस्वाध्यायभिक्षाटनदानातिथिसत्कारादिः, तेन शोषिताः
  
  
  
   कर्शिता:ताः निस्सारतां प्रापिता इत्यर्थ:थः । वीताः गताः, राग: विषयाभिलाष:
  
  
  
  षः स च, भयं शीतोष्णादिभीतिः तच्च, क्रोधः परजिघांसा च, मत्सरः परोत्कर्षास-
  
  
  
  हनं स च, ते येषां ते । विषयेभ्य: स्रक्चन्दनादिभ्यः पराङ्मुखाः विनिवृत्ताः ।
  
  
  
   भुवि परमर्षय इति प्रथां प्रसिद्धिमागताः, पण्डित एव विवेकिन एव, वारमृगी-
  
  
  
  दृशां, प्रणयिन:नः वल्लभाः, प्रेमभाजनानीति यावत् । अश्वस्य मेघा विशसनं यस्मिन्
  
  
  
  सोऽश्वमेधः, तेन इष्टवन्तः अश्वमेधयाजिनः । अश्वमेधक्रतुकृत इति यावत् ।
  
  
  
   अग्निं चिन्वन्त इत्यग्निचितः, चयनकृत इति यावत् । मासं उपवस्तुं शीलं[^१] येषां
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] " सुप्यजातौ णिनिस्ताच्छील्ये " (पा. सू. 3-2-78३.२.७८) इत्यनेन ताच्छील्ये णिनिः ॥