2023-08-26 07:03:19 by Bharadwajraki
This page has been fully proofread twice.
तदग्रे यदुत्पत्स्यते तद्भवाननुमन्यताम्' इति प्रार्थ्यमानस्सुरासुरैरन्तरेव कृतस्मितः किञ्चिदन्वमन्यत रमारमणः ।
अथ पुनरपि यावदाविलं ते
व्यधुरुदधिं विबुधाश्च दानवाश्च ।
सममखिलजनुष्मतां मनोभिः
समजनि तावदनाविला त्रिलोकी ॥ १६ ॥
अभ्यग्रावतरिष्यदर्णवसुताहस्ताग्रसम्भावना-
संहृष्यत्कनकारविन्दकलिकासौरभ्यसारस्पृशः ।
[commentary]
स्वामिने ईश्वराय भवते किमपि किञ्चिदपि अनुपहृत्य उपायनमकृत्वेत्यर्थः । अस्माभिः आसेवितुं उपयोक्तुं अयुक्तं युक्तं न भवतीत्यर्थः । यद्वस्तु समुद्रादिति शेषः । अग्रे उत्तरमुहूर्तेषु उत्पत्स्यते जनिष्यति इत्यर्थः । तद्वस्तु भवाननुमन्यतां अङ्गीकुरुष्वेत्यर्थः । इति इत्थं सुरासुरैः प्रार्थ्यमानः अन्तरेव कृतं स्मितं मन्दहासो येन स तथाभूतं तत्त्वज्ञत्वादिति भावः । रमारमणः लक्ष्मीपतिः किञ्चिदीषदन्वमन्यत अङ्गीचकारेत्यर्थः ॥ अथेति ॥ अथ ऐकमत्यानन्तरं पुनरपि विबुधाश्चेति दानवाश्चेति त उभये उदधिं समुद्रं यावत् आविलं अस्वच्छम् । 'त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः' इत्यमरः । व्यधुः चक्रुरित्यर्थः । तावदखिला ये जनुष्मन्तः प्राणिन इत्यर्थः । जनुश्शब्दादुत्पत्तिवाचकात् 'तदस्यास्त्यस्मिन्निति मतुप्' (५.२.९४) इति मतुप्प्रत्ययः । तेषामाशयैर्मनोभिस्समम् । 'भावोऽभिप्राय आशयः' 'साकं सत्रा समं सह' इति च अमरः । त्रिलोकी त्रिभुवनमनाविला अत्यन्तस्वच्छनिर्मला समजनि समभूदित्यर्थः । उत्पत्स्यमानायाः भगवत्याः महालक्ष्म्याः प्रभावादिति भावः ॥ अभ्यग्रेति ॥ अभ्यग्रमन्तिकं 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः । तस्मिन् अवतरिष्यन्ती उत्पत्स्यमाना याऽर्णवसुता लक्ष्मीः तस्याः यद्धस्ताग्रं कराग्रं तेन या सम्भावना स्वीकाररूपसम्मानना इत्यर्थः । तया संहृष्यन्ती हर्षमापद्यमाना या कनकारविन्दकलिका सुवर्णकमलकुड्मलम् इत्यर्थः । 'कलिका कोरकः पुमान्' इत्यमरः । तस्याः यत्सौरभ्यं गन्धपरिमळः तस्याः सारः स्थिरांशः । 'सारो बले स्थिरांशे च' इत्यमरः । तं स्पृष्ट-