This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
तद्ग्रे यदुत्पत्स्यते तद्भवाननुमन्यताम्' इति प्रार्थ्यमानस्सुरासुरैरन्तरेव
कृतस्मितः किञ्चिदन्वमन्यत रमारमणः ।
 
अथ पुनरपि यावदाविलं ते
 
व्यधुरुदधिं विबुधाश्च दानवाश्च ।
सममखिलजनुष्मतां मनोभिः
 
समजनि तावदनाविला त्रिलोकी ॥ १६ ॥
 
अभ्यग्रावतरिष्यदर्णवसुताहस्ताग्रसम्भावना-
संहृष्यत्कनकार
 
विन्दकलिकासौरभ्यसारस्पृशः ।
 
स्वामिने ईश्वराय भवते किमपि किञ्चिदपि अनुपहृत्य उपायनमकृत्वेत्यर्थः ।
अस्माभिः आसेवितुं उपयोक्तुं अयुक्तं युक्तं न भवतीत्यर्थः । यद्वस्तु समुद्रादिति
शेष: । अग्रे उत्तरमुहूर्तेषु उत्पत्स्यते जनिष्यति इत्यर्थः । तद्वस्तु भवाननुमन्यतां
अङ्गीकुरुष्वेत्यर्थः। इति इत्थं सुरासुरैः प्रार्थ्यमानः अन्तरेव कृतं स्मितं मन्दहासो येन
स तथाभूतं तत्त्वज्ञत्वादिति भावः । रमारमण: लक्ष्मीपतिः किञ्चिदीषदन्वम-
न्यतं अङ्गीचकारेत्यर्थः ॥ अथेति ॥ अथ ऐकमत्यानन्तरं पुनरपि विबुधाश्चेति
दानवाश्चेति त उभये उदधिं समुद्रं यावत् आविलं अस्वच्छम् । 'त्रिष्वागाधात्
प्रसन्नोऽच्छ: कलुषोऽनच्छ आविलः' इत्यमरः । व्यधुः चक्रुरित्यर्थः । तावदखिला
ये जनुष्मन्तः प्राणिन इत्यर्थः । जनुश्शब्दादुत्पत्तिवाचकात् 'तदस्यास्त्यस्मिन्निति
मतुं' (5-2-94) इति मतुप्प्रत्ययः । तेषामाशयैर्मनो भिस्समम् । 'भावोऽभिप्राय
आंशयः' 'साकं सत्रा समं सह' इति च अमरः । त्रिलोकी त्रिभुवनमनाविला अत्यन्त
स्वच्छनिर्मला समजनि समभूदित्यर्थः । उत्पत्स्यमानायाः भगवत्याः महालक्ष्म्याः
प्रभावादिति भावः ॥ अभ्यग्रेति ॥ अभ्यग्रमन्तिकं 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा
अप्यभितोऽव्ययम्' इत्यमरः । तस्मिन् अवतरिष्यन्ती उत्पत्स्यमाना याऽर्णवसुता
लक्ष्मीः तस्याः यद्धस्ताग्रं करायं तेन या सम्भावना स्वीकाररूपसम्मानना इत्यर्थः ।
तया संहृष्यन्ती हर्षमापद्यमाना या कनकारविन्दकलिका सुवर्णकमलकुड्मलम्
इत्यर्थः । 'कलिका कोरकः पुमान्' इत्यमरः । तस्याः यत्सौरभ्यं गन्ध-
परिमळ: तस्याः सारः स्थिरांश: । 'सारो बले स्थिरांशे च ' इत्यमरः । तं स्पृष्ट-