This page has been fully proofread twice.

'हन्त भो देवासुराः किमिदमजानतामिव भवतामपि वैमत्यम् । तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवितव्यं फलेनापि ।
 
तदिमास्समुद्रसम्भवा अप्सरसो नाम तरुण्यस्साधारण्यो[^१] भवन्तु भवताम् ।
 
गजमेकमश्वमेकं गामेकां पञ्च च द्रुमान् दत्त्वा ।
सम्भावयत विनाशितसर्वस्वं[^२] वासवं यदि प्रीतिः ॥ १५ ॥'
 
इत्यभिहितमात्र एव सादरमाधाय शासनं शिरसि 'किं प्रतिब्रूमो भवच्छासने, किन्तु स्वामिने किमप्यनुपहृत्य न युक्तमस्माभिरियदासेवितुं,
 
[commentary]
 
इत्यमरः । पथ्यं हितकरं वचः अभिदधे जगादेत्यर्थः ॥ हन्तेति ॥ हन्तेति विषादे वाक्यारम्भे वा । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः । भो देवासुराः भवतामपि गुरुभार्गवशिष्याणामपीत्याशयः । अविवेकिनां सदसद्विवेकरहितानामिव विमतानां भावो वैमत्यं अन्योन्यविद्वेष इत्यर्थः । हन्तेति खेदे ॥ तुल्य इति ॥ परिश्रमः मथनप्रयुक्तखेदः तस्मिन् तुल्ये समाने सति । उभयेषामपि मथने प्रवृत्तत्वादिति भावः । अभिजने वंशेऽपि । 'कुलान्यभिजनान्वयौ' इत्यमरः । उभयेषामपि काश्यपसम्भूतत्वादिति भावः । तुल्येनैव एकेनैव, फलेनापि भवितव्यं अमृतैकफलोद्देशेनैव उभयेषां प्रवृत्तेरिति भावः ॥ तदिति ॥ तत्तस्मात् समुद्रसम्भवाः समुद्रोत्पन्नाः अप्सरसो नाम प्रसिद्धाः । 'स्त्रियां बहुष्वप्सरसः' इत्यमरः । तरुण्योऽपि युवत्योऽपि भवतामुभयेषामपीत्यर्थः । साधारण्यः अविशेषतो वर्तमाना इत्यर्थः । भवन्तु सन्त्वित्यर्थः । मुख्यफलवन्न्यायत आनुषङ्गिकगौणफलस्याप्युभयगामित्वादिति बोध्यम् ॥ गजमिति ॥ अनुजे इति शेषः । प्रीतिर्यदि अनुरागः अस्ति चेदित्यर्थः । एकं गजमेकमश्वं एकां गां धेनुं पञ्चसङ्ख्याकान्द्रुमान् वृक्षांश्च दत्त्वा विनाशितं सर्वस्वं सर्वसौभाग्यं येन स तथाभूतं वासवं सम्भावयत बहुमानं कुरुतेत्यर्थः। 'सोदरे दत्तमक्षयम्' इति शास्त्रादिति भावः ॥ इतीति ॥ इति इत्थम् अभिहितमात्रा एव ते देवासुराश्शासनं श्रीवासुदेवाज्ञां सादरं यथा तथा शिरसि आधाय भवतश्शासनमाज्ञा तस्मिन्विषये प्रतिब्रूमः किं प्रतिकूलोत्तरं वदामः किमित्यर्थः । किन्तु
 
[^१] अप्सरसः साधारण्य इति प्रसिद्धम् ॥
 
[^२] सर्वस्वापहरणात् दुःखितं सोदरं वासवं गजाश्वगोद्रुमदानात् संभावनं विध्युक्तं युक्तं मेनिरे असुराः ॥