This page has been fully proofread once and needs a second look.

पञ्चमांश्वासः
 
३४३
 
हि
'हन्त भो देवासुराः किमिदमजानतामिव भवतामपि वैमत्यम् ।
तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवितव्यं फलेनापि ।

 
तदिमास्समुद्रसम्भवा अप्सरसो नाम तरुण्यस्साधारण्यो[^१] भवन्तु
 
भवताम् ।
 

 
गजमेकमश्वमेकं गामेकां पञ्च च द्रुमान् दत्त्वा ।
 

सम्भावयत विनाशितसर्वस्वं[^२] वासवं यदि प्रीतिः ॥ १५ ॥
'
 
इत्यभिहितमात्र एव सादर माधाय शासनं शिरसि 'किं प्रतिब्रूमो भव-
च्छासने, किन्तु स्वामिने किमप्यनुपहृत्य न युक्तमस्माभिरियदासेवितुं,

 
[commentary]
 
इत्यमरः । पथ्यं हितकरं वचः अभिदधे जगादेत्यर्थः ॥ हन्तेति ॥ हन्तेति विषादे
वाक्यारम्भे वा । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः । भो
देवासुराः भवतामपि गुरुभार्गवशिष्याणामपीत्याशयः । अविवेकिनां सदसद्वि-
वेकरहितानामिव विमतानां भावो वैमत्यं अन्योन्यविद्वेष इत्यर्थः । हन्तेति
खेदे ॥ तुल्य इति ॥ परिश्रमः मथनप्रयुक्तखेदः तस्मिन् तुल्ये समाने सति ।
उभयेषामपि मथने प्रवृत्तत्वादिति भावः । अभिजने वंशेऽपि । 'कुलान्यभि-
जनान्वयौ' इत्यमरः । उभयेषामपि काश्यपसम्भूतत्वादिति भावः । तुल्येनैव
एकेनैव, फलेनापि भवितव्यं अमृतैकफलोद्देशेनैव उभयेषां प्रवृत्तेरिति भावः ॥
तदिति ॥ तत्तस्मात् समुद्रसम्भवाः समुद्रोत्पन्नाः अप्सरसो नाम प्रसिद्धाः ।
'स्त्रियां बहुष्वप्सरसः' इत्यमरः । तरुण्योऽपि युवत्योऽपि भवतामुभयेषामपी-
त्यर्थ: 1.
त्यर्थः । साधारण्य:यः अविशेषतो वर्तमाना इत्यर्थः । भवन्तु सन्त्वित्यर्थः ।
मुख्यफलवन्न्यायत आनुषङ्गिकगौणफलस्याप्युभयगामित्वादिति बोध्यम् ॥
गजमिति ॥ अनुजे- इति शेषः । प्रीतिर्यदि अनुरागः अस्ति चेदित्यर्थः ।
एकं गजमेकमश्वं एकां गां धेनुं पञ्चसङ्ख्याकान् द्रुमान् वृक्षांश्च दत्त्वा विनाशितं
सर्वस्वं सर्वसौभाग्यं येन स तथा भूतं वासवं सम्भावयत बहुमानं कुरुतेत्यर्थः। 'सोदरे
दत्तमक्षयम्' इति शास्त्रादिति भावः ॥ इतीति ॥ इति इत्थम् अभिहितमात्रा एव
ते देवासुराश्शासनं श्रीवासुदेवाज्ञां सादरं यथा तथा शिरसि आघाधाय भवतश्शा-
सनमाज्ञा तस्मिन्विषये प्रतिब्रूमः किं प्रतिकूलोत्तरं वदामः किमित्यर्थः । किन्तु
 
1.
 
अप्सरस:

 
[^१] अप्सरसः
साधारण्य इति प्रसिद्धम् ॥
 
2.

 
[^२]
सर्वस्वापहरणात् दुःखितं सोदरं वासवं गजाश्वगोदुद्रुमदानात् संभावनं विध्युक्तं
युक्तं मेनिरे असुराः ॥