2023-08-26 06:42:23 by Bharadwajraki
This page has been fully proofread twice.
यनस्य, [^१]रशनावमर्शनं राजसूयस्य, विपरीतरतं विश्वसृजामयनस्य, चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्तपनयोः फलमाचक्षते ।
सौहार्दं परमेयुषामपि तदा सन्नह्यतां विग्रहे
तासामेव कृते शनैस्सुमनसां दैत्येश्वराणामपि ।
सद्यः क्षालयितुं विवादमनतिप्रौढं सरोजेक्षणः
संगृह्णन्नुभयानिमानभिदधे तथ्यं च पथ्यं वचः॥ १४ ॥
[commentary]
इति भेदेन । तत्र पञ्चमहायज्ञाष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धस्सौत्रामणीति सप्त हविर्यज्ञसंस्था इति । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यष्षोडशी वाजपेयः अतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्था इति । एतत्त्रिविधसंस्थानामिति यावत् । तासां स्तनयोः नखलेखनं नखक्षतमित्यर्थः । कुण्डपायिनामयनस्यानेकसंवत्सरसाध्यस्य यागविशेषस्येत्यर्थः । तासां कुचमर्दनं स्तननिष्पीडनमित्यर्थः । राजसूयस्य सार्वभौमानुष्ठितराजसूययागस्येत्यर्थः । तासां रसनयाऽवमर्शनं
रसनावमर्शनं तत्संज्ञकः चुम्बनविशेषः तम् । विश्वसृजामयनस्य विपरीतरतम् उपरिसुरतमित्यर्थः । चान्द्रायणस्य चन्द्रकलावृद्धिह्रासानुरोधेन कबळवृद्धिह्रासीकरणरूपव्रतविशेषस्य चरणताडनं चरणसम्बन्ध इति तात्पर्यार्थः । पराकसान्तपने प्रायश्चित्तार्थकृच्छ्रे, तयोः तासामप्सरसां परिभाषणं सनिन्ददुर्वादमित्यर्थः । 'यस्सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः । तात्कालिकताम्बूलादिवर्जनादेः वासनावशादद्यापि अनुज्झितत्वादिति भावः । फलं फलरूपमाचक्षते आहुरित्यर्थः ॥ सौहार्दमिति ॥ तदा तत्काले परमुत्कृष्टं सौहार्दं स्नेहम् । 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । ईयुषामुपेयुषामित्यर्थः । अमृतसम्पादनार्थमिति भावः । तासामेव कृते अप्सरस्त्रीनिमित्तमेवेत्यर्थः । विग्रहे युद्धे । 'रणाः कलहविग्रहौ' । इत्यमरः । शनैस्सन्नह्यतां यतमानानामित्यर्थः । सुमनसां देवानां दैत्येश्वराणामपि अनतिप्रौढं ईषदुल्बणं विवादं विसंवादं सद्यः क्षाळयितुं परिहापयितुं सरोजेक्षणो भगवान् पुण्डरीकाक्षः उभयानिमान् देवासुरान्
सङ्गृह्णन् आमन्त्र्य उपवेशयन्नित्यर्थः । तथ्यं सत्यभूतं, 'सत्यं तथ्यमृतं सम्यक्'
[^१] 'रसनावमर्शनम्' इति व्याख्यापाठः ।