This page has been fully proofread once and needs a second look.

नीलकण्ठ विजयेयनस्य, सव्याख्याने
 
यनस्य,
[^१]रशनावमर्शनं राजसूयस्याः, विपरीतरतं विश्वसृजामयनस्य,
चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्तपनयोः फलमा-
चक्षते ।
 

 
सौहार्दं परमेयुषामपि तदा सन्नह्यतां विग्रहे
 

तासामेव कृते शनैस्सुमनसासां दैत्येश्वराणामपि ।

सद्यः क्षालयितुं विवादमनतिप्रोरौढं सरोजेक्षणः
 

संगृह्णन्नुभयानिमानभिद्धे तथ्यं च पथ्यं वचः॥ १४ ॥
 

 
[commentary]
 
इति भेदेन । तत्र पञ्चमहायज्ञाष्टका पार्वण श्राद्धश्रावण्याग्रहायणीचैत्र्याश्वयुजीति
सप्त. पाकयज्ञसंस्थाः । अग्न्याघेधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि
निरूढपशुबन्धस्सौत्रामणीति सप्त हविर्यज्ञसंस्था इति ।
सप्त हविर्यज्ञसंस्था इति । अग्निष्टोमोऽत्यग्निष्टोम
उक्थ्यष्षोडशी वाजपेयः अतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्था इति । एतत्त्रिवि-
धसंस्थानामिति यावत् । तासां स्तनयोः नखलेखनं नखक्षतमित्यर्थः । कुण्डपायि-
नामयनस्याने कसंवत्सरसाध्यस्य यागविशेषस्येत्यर्थः । तासां कुचमर्दनं स्तननिष्पीड
नमित्यर्थः । राजसूयस्य सार्वभौमानुष्ठितराजसूययागस्येत्यर्थः । तासां रसनयाऽवमर्शनं

रसनावमर्शनं तत्संज्ञक:कः चुम्बनविशेषः तम् । विश्वसृजामयनस्य विपरीतरतम् उपरि-
सुरतमित्यर्थ:थः । चान्द्रायणस्य चन्द्रकलावृद्धिहाह्रासानुरोधेन कबळवृद्धिहाह्रासीकरणरूप-
व्रतविशेषस्य चरणताडनं चरणसम्बन्ध इति तात्पर्यार्थः । पराकसान्तपने
प्रायश्चित्तार्थकृच्छ्रे, तयोः तासामप्सरसां परिभाषणं सनिन्ददुर्वादमित्यर्थः ।
'यस्सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः । तात्कालिकताम्बूलादिवर्ज-
S
 

 
नादे : -देः वासनावशादद्यापि अनुज्झितत्वादिति भावः । फलं फलरूपमाचक्षते
आहुरित्यर्थः ॥ सौहार्दमिति ॥ तदा तत्काले परमुत्कृष्टं सौहार्दं स्नेहम् ।
'प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । ईयुषामुपेयुषामित्यर्थः ।
अमृतसम्पादनार्थमिति भावः । तासामेव कृते अप्सरस्त्रीनिमित्तमेवेत्यर्थः । विग्रहे
युद्धे । 'रणा:णाः कलह विग्रहोहौ' । इत्यमरः । शनैस्सन्नद्धह्यतां यतमानानामित्यर्थः ।
सुमनसां देवानां दैत्येश्वराणामपि अनतिप्रौढं ईषदुल्बणं विवादं विसंवादं सद्यः
क्षाळयितुं परिहापयितुं सरोजेक्षणो भगवान् पुण्डरीकाक्षः उभयानिमान् देवासुरान्

सङ्गृह्णन् आमन्त्र्य उपवेशयन्नित्यर्थः । तथ्यं सत्यभूतं, 'सत्यं तथ्यमृतं सम्यक्'
1.

 
[^१]
'रसनावमर्शनम्' इति व्याख्यापाठः ।
 
19