2023-08-26 06:24:30 by Bharadwajraki
This page has been fully proofread twice.
जिज्ञासाञ्चक्रिरे । पञ्चाग्निमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि बहुमेनिरे । किं बहुना । श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासामालोकनं [^१]अग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य, गाननिषेवणं गवामयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वाङ्मिश्रणं वाजपेयस्य, परिष्वङ्गं पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायणयज्ञस्य, नखलेखनं नानाविधानां संस्थानाम्, कुचमर्दनं कुण्डपायिनाम-
[commentary]
'तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः' इत्यमरः । मन्त्राणां जपः अर्थानुसन्धानमित्यर्थः । तस्मात् जपधातोरर्थानुसन्धानार्थकत्वे प्रमाणं तु 'तज्जपस्तदर्थभावनम्' इति पातञ्जलसूत्रमिति बोध्यम् । उपरम्य तूष्णीं भूत्वेत्यर्थः । मणितानि रतिकालिकनादाः । 'मणितं रतिकूजितम्' इत्यमरः । तेषां भेदाः प्रभेदाः तान् अधिजिज्ञासाञ्चक्रिरे विविदिषाञ्चक्रुरित्यर्थः । तेषामपि यद्येवं, इतरेषां तु किं वक्तव्यमिति भावः ॥ पञ्चेति ॥ परमर्षयोऽपि पञ्चास्त्रस्य मदनस्य या विद्या कला, शास्त्रमिति तात्पर्यार्थः । तामेव बहु मेनिरे श्लाघयामासुरित्यर्थः ॥ श्रुतीति ॥ श्रुतीनां न्यायः अधिकरणापरपर्याया युक्तिपूर्वमीमांसाशास्त्रमिति भावः । तद्विदस्तच्छाश्त्रवेत्तारः सूक्ष्मदर्शिनः पण्डिता अपि । 'दूरदर्शी दीर्घदर्शी सूक्ष्मदर्शी बुधे पुमान्' इति नानार्थमाला । अग्निष्टोमस्य तत्संज्ञिकयागस्य तासमप्सरसाम्, अवलोकनं दर्शनं फलमाचक्षते वदन्तीत्येवमुत्तरत्रान्वयो बोध्यः । द्वादशाहस्य द्वादशाहस्साध्यक्रतुविशेषस्य द्वारोपसर्पणं तद्गृहद्वारोपगमनमित्यर्थः । गवामयनस्य एकसंवत्सरसाध्यगवामयनसंज्ञिकयागविशेषस्य गाननिषेवणं आलापश्रवणमिति यावत् । नक्षत्रसत्रस्य नक्षत्रेष्टियागस्य तासां नाट्यावलोकनम् । वाजपेयस्य बहुपशुकरणकवाजपेयसंज्ञिकयागस्य तासां वाङ्मिश्रणं प्रश्नोत्तररूपं वाङ्मेळनमित्यर्थः । पौण्डरीकस्य सोमसंस्थाविशेषस्येत्यर्थः । तासां परिष्वङ्गः आलिङ्गनम् । वाजिमेधस्य अश्वमेधयागस्येत्यर्थः । वदनास्वादनं मुखचुम्बनमित्यर्थः । दाक्षायणसंज्ञिको यो यज्ञः तस्य दन्तानां क्षतं अङ्कनमित्यर्थः । नानाविधानामनेकप्रकाराणां संस्थानां सोमसंस्थानां हविस्संस्थानां चेत्यर्थः । अत्रेदं बोध्यम् । सामान्यतः संस्थाः त्रिविधाः । पाकयज्ञसंस्था इति, हविर्यज्ञसंस्था इति, सोमयज्ञसंस्था
[^१] कर्मठः कविः यज्ञनामानि तत्फलानि च वर्णयति ॥