This page has been fully proofread once and needs a second look.

पञ्चेमोश्वासः
 
३४१
 
जिज्ञासाञ्चक्रिरे । पञ्चाग्निमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि
बहुमेनिरे । किं बहुना । श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासा-
मालोकनं '[^१]अग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य, गाननिषेवणं गवा-
मयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वाङ्मिश्रणं वाजपेयस्य,
परिष्वङ्गं पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायण-
यज्ञस्य, नखलेखनं नानाविधानां संस्थानाम्, कुचमर्दनं कुण्डपायिनाम-

 
[commentary]
 
'तपस्वी तापस:सः पारिकाडूङ्क्षी वाचंयमो मुनिः' इत्यमरः । मन्त्राणां जपः
अर्थानुसन्धानमित्यर्थः । तस्मात् जपघाधातोरर्थानुसन्धानार्थकत्वे प्रमाणं तु 'तज्जपस्त-
दर्थभावनम्' इति पातञ्जलसूत्रमिति बोध्यम् । उपरम्य तूष्णीं भूत्वेत्यर्थः ।
मणितानि रतिकालिकनादा:दाः । 'मणितं रतिकूजितम्' इत्यमरः । तेषां भेदाः
प्रभेदाः तान् अधिजिज्ञासाञ्चक्रिरे विविदिषाञ्चकुक्रुरित्यर्थः । तेषामपि यद्येवं, इत-
रेषां तु किं वक्तव्यमिति भावः ॥ पञ्चेति ॥ परमर्षयोऽपि पञ्चास्त्रस्य मदनस्य
या विद्या केला, शास्त्रमिति तात्पर्यार्थः । तामेव बहु मेनिरे श्लाघयामासुरित्यर्थः
॥ श्रुतीति ॥ श्रुतीनां न्यायः अधिकरणापरपर्याया युक्तिपूर्वमीमांसाशास्त्रमिति
भावः । तद्विदस्तच्छाश्त्रवेत्तार :रः सूक्ष्मदर्शिनः पण्डिता अपि । 'दूरदर्शी दीर्घदर्शी
सूक्ष्मदर्शी बुधे पुमान्' इति नानार्थमाला । अग्निष्टोमस्य तत्संज्ञिकयागस्य
तासमिप्सरसाम्, अवलोकनं दर्शनं फलमाचक्षते वदन्तीत्येवमुत्तरत्रान्वयो बोध्यः ।
द्वादशाहस्य द्वादशाहस्साध्यक्रतुविशेषस्य द्वारोपसर्पणं तद्ब्रगृहद्वारोपगमनमित्यर्थः ।
गवामयनस्य एकसंवत्सरसाध्यगवामयनसं ज्ञिकयागविशेषस्य गाननिषेवणं
आलाप श्रवणमिति यावत् । नक्षत्रसत्रस्य नक्षत्रेष्टियागस्य तासां नाट्यावलोकनम् ।
वाजपेयस्य बहुपशुकरणकवाजपेयसंज्ञिकयागस्य तासां वाड्ङ्मिश्रणं प्रश्नोत्तररूपं
वाङ्मेळनमित्यर्थः । पौण्डरीकस्य सोमसंस्था विशेषस्येत्यर्थ:थः । तासां परिष्वङ्गः
आलिङ्गनम् । वाजिमेस्य अश्वमेधयागस्येत्यर्थः । वदनास्वादनं मुखचुम्बनमित्यर्थः ।
दाक्षायणसंज्ञिको यो यज्ञः तस्य दन्तानां क्षतं अङ्कनमित्यर्थः । नानाविधानामनेक-
प्रकाराणी संस्थानों सोमणां संस्थानां हविस्सोमसंस्थानां हविस्संस्थानां चेत्यर्थः । अत्रेदं बोध्यम् ।
सामान्यतः संस्थाः त्रिविधाः । पाकयज्ञसंस्था इति, हविर्यज्ञसंस्था इति, सोमयज्ञसंस्था
 
1.

 
[^१]
कर्मठः कविः यज्ञनामानि तत्फलानि च वर्णयति ॥