This page has been fully proofread twice.

विनिर्मिताः केनापि, पञ्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः, तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः हंसीरिव मानसादम्भोदविगमे समुत्तरन्तीः ताः बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य[^१] सागरमथनवृथाक्लेशादुत्तरमप्यमृतमुपेक्ष्य सन्निहिते अधरामृत एव दृष्टिमादधिरे । तापसा अपि तद्दर्शनक्षुभितहृदयाः मन्त्रजपादुपरम्य मणितभेदानधि-
 
[commentary]
 
इति भास्करः । तस्मात्परिभ्रष्टाः च्युताः पतिता इत्यर्थः । 'स्रस्तं ध्वस्तं भ्रष्टम्' इत्यमरः । तटितः विद्युत इव स्थिताः । केनापि येनकेनचित्पुंसेत्यर्थः । कौतूहलाय विकासाय । 'कौतूहलं कौतुकञ्च' इत्यमरः । विरचिताः निर्मिताः कौस्तुभसंज्ञिकानि यानि रत्नानि तन्मयाश्च ताः याः पाञ्चालिकाः पुत्रिका इत्यर्थः । 'पाञ्चालिका पुत्रिका स्यात्' इत्यमरः । ता इव स्थिताः । यद्वा केनापि ब्रह्मणापि इत्यर्थः । सजीवा इति शेषः । 'मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः' इत्यमरः । शिष्टं प्राग्वदित्यवस्थेयम् । परिगृहीता विधृताः विग्रहाः शरीराणि यासां ताः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । ता इव स्थिताः पञ्चशरो मदनः तस्य या लक्ष्मीः तस्या विभूतयः अंशाः ता इव स्थिताः तुल्याः एकविधा वयः कालो रूपं सौन्दर्यं विभ्रमो विलासश्चैते यासां ताः तथाभूताः । तुल्ये अम्बरं वस्त्रं आभरणं चेत्येते यासां ताः तथाभूताः । अम्भोदानां मेघानां विगमोऽपसरणं तस्मिन् । शरत्काल इति भावः । मानसात् मानससरोवरं विहाय इत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमीयम् । 'चित्ते सरसि मानसम्' इति भास्करः । उत्तरन्तीः उद्गच्छन्तीः हंसानां स्त्रियो हंस्यः । 'पुंयोगादांख्यायाम्' (४.१.४८) इति ङीष् । ता इव स्थिताः ततस्तस्मात् समुद्राद्बहिः बाह्यदेशं प्रतीत्यर्थः । उत्तरन्तीः उद्गच्छन्तीः ताः अप्सरसः सर्वेऽपि सुरासुरा देवासुराः आलक्ष्य दृष्ट्वा सागरस्य यन्मथनं तस्मिन् यः क्लेशः सर्पराजाकर्षणरूपप्रयास इत्यर्थः । तस्माद्विरम्य तत्क्लेशं विहाय तूष्णीं भूत्वेत्यर्थः । उत्तरं उत्पत्स्यमानं अमृतं सुधाम् । 'पीयूषममृतं सुधा' इत्यमरः । उपेक्ष्य अगणयित्वेत्यर्थः । सन्निहितं समीपस्थं यदधरामृतं अप्सरसां सम्बन्धीति भावः । तस्मिन् दृष्टिं बुद्धिं, 'दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । आदधिरे निदधिरे निहितवन्त इति यावत् । 'बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति' इति न्यायादिति भावः ॥ तापसा इति ॥ अप्सरसां दर्शनमवलोकनं तेन क्षोभितानि सञ्जातक्षोभानि हृदयानि येषां ते तथाविधास्तापसा अपि तपस्विनोऽपीत्यर्थः ।
 
[^१] स्पर्शनेन्द्रियं रसनेन्द्रियात् बलवदिति भावः ।