2023-06-05 16:40:43 by ambuda-bot
This page has not been fully proofread.
३४४
नीलकण्ठविजये सव्याख्याने
"
विनिर्मिताः केनापि, पञ्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः,
तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः हंसीरिव मानसादम्भोदविगमे
समुत्तरन्ती: तां: बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य सागरमथन-
वृथाक्लेशादुत्तरमप्यमृतमुपेक्ष्य सन्निहिते अधरामृत एव दृष्टिमादधिरे ।
तापसा अपि तद्दर्शनक्षुभितहृदयाः मन्त्रजपादुपरम्य मणितभेदानघि-
इति भास्करः । तस्मात्परिभ्रष्टाः च्युताः पतिता इत्यर्थ: । 'सस्तं ध्वस्तं भ्रष्टम्'
इत्यमरः । तटितः विद्युत इव स्थिताः । केनापि येनकेनचित्युंसेत्यर्थ: । कौतूह-
लाय विकासाय । 'कौतूहलं कौतुकञ्च' इत्यमरः । विरचिताः निर्मिता: कौस्तु-
भसंज्ञिकानि योनि रत्नानि तन्मयांश्च ताः याः पाञ्चालिंका: पुत्रिका इत्यर्थः ।
'पाञ्चालिका पुत्रिका स्यात्' इत्यमरः । ता इव स्थिताः । यद्वा केनापि ब्रह्मणापि
इत्यर्थः । सजीवा इति शेष: । 'मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोम्बुनोः'
इत्यमरः । शिष्टं प्राग्वदित्यवस्थेयम् । परिगृहीता विधृताः विग्रहाः शरीराणि
यासां ताः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । ता इव स्थिताः पञ्चशरो मदनः
तस्य या लक्ष्मीः तस्या विभूतयः अंशाः ता इव स्थिताः तुल्या: एकविधा वयः
कालो रूपं सौन्दर्य विभ्रमो विलासश्चैते यासां ताः तथाभूताः । तुल्ये अम्बरं वस्त्र
आभरणं चेत्येते यासां ताः तथाभूताः । अम्भोदानां मेघानां विगमोऽपसरणं
तस्मिन् । शरत्काल इति भावः । मानसात् मानससरोवरं विहाय इत्यर्थः ।
ल्यब्लोपे कर्मणि पञ्चमीयम् । 'चित्ते सरसि मानसम्' इति भास्करः । उतरन्तीः
उद्गच्छन्तीः हंसानां स्त्रियो हंस्यः । 'पुंयोगादांख्यायाम्' (4-1-48) इति ङीष् । ता
इव स्थिताः ततस्तस्मात् समुद्रावहिः बाह्यदेशं प्रतीत्यर्थः । उत्तरन्तीः उद्गच्छन्तीः
ताः अप्सरसः सर्वेऽपि सुरासुरा देवासुराः आलक्ष्य दृष्ट्वा सागरस्य यन्मथनं तस्मिन्
य: क्लेश: सर्पराजाकर्षणरूपप्रयास इत्यर्थः । तस्माद्विरम्य तत्क्लेशं विहाय तूष्णीं
भूत्वेत्यर्थः । उत्तरं उत्पत्स्यमानं अमृतं सुधाम् । 'पीयूषममृतं सुधा' इत्यमरः ।
उपेक्ष्य अगणयित्वेत्यर्थः । सन्निहितं समीपस्थं यदद्धरामृतं अप्सरसां सम्बन्धीति
भाव: । तस्मिन् दृष्टिं बुद्धि, 'दृष्टिर्ज्ञानेऽक्षिण दर्शने' इत्यमरः । आदघिरे
निंदधिरे निहितवन्त इति यावत् । 'बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति' इति
न्यायादिति भावः ॥ तापसा इति ॥ अप्सरसां दर्शनमवलोकनं तेन क्षोभितानि
सञ्जातक्षोभानि हृदयानि येषां ते तथाविधास्तापसा अपि तपस्विनोऽपीत्यर्थः ।
1. स्पर्शनेन्द्रियं रसनेन्द्रियात् बलवदिति भावः ।
4