This page has been fully proofread twice.

नैर्मल्यादुपसम्भृताः फणधरस्त्रैणानुबिम्बाश्शतं
स्वस्थानक्षुभितोद्गतामृतारसस्यन्दोपसन्दानतः ।
प्राप्तप्राणसमागमा इव ततः प्रादुर्बभूवुः स्त्रियो
नासीराग्रपताकिका रतिपतेर्नानाजयाङ्का इव ॥१३॥
 
ततश्च विद्रुमलता इव वीचीभिराहृताः, तटित इव तत्तत्समयोपनम्रपयोधरोत्सङ्गपरिभ्रष्टाः, कौस्तुभरत्नपाञ्चालिका इव कौतूहलाय
 
[commentary]
 
उक्त्वा, शिलादनन्दने नन्दीश्वरे तिरोहिते अन्तर्हिते सति पुनरपि सरस्वतः समुद्रस्यायं सारस्वतः समुद्रसम्बधी इत्यर्थः । 'तस्येदम्' (४.३.१२०) इत्यण् । गर्भः कुक्षिः । 'कुक्षिभ्रूणार्भको गर्भौ' इत्यमरः । संचुक्षोभ मथित इत्यर्थः ॥ नैर्मल्यादिति ॥ नैर्मल्यान्निर्मलत्वाद्धेतोः उपसम्भृतास्सम्पादिताः स्वं स्वकीयं यत् स्थानं तस्मात् क्षुभितः चालितः अत एव उद्गतः निर्गतो योऽमृतरसः । अथवा स्वस्थानस्य
क्षुभितं क्षोभः । भावे क्तः । तेन उद्गतः विनिर्गतः यः अमृतरसः तस्य स्यन्दः प्रसृतिः तस्योपसन्दानं सम्बन्धः तस्मात् ततः इत्यर्थः । पञ्चम्यास्तसिः । प्राप्तः संप्राप्तः प्राणानां समागमः आगमनं यैस्तथाभूताः शतं शतसङ्ख्याकाः फणाधराणां नागानां याः स्त्रियः तासां सम्बन्धिनः स्त्रैणाः । 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' (४.१.८७) इति नञ्प्रत्ययः । तथाभूतानुबिम्बाः प्रतिबिम्बा इव स्थिताः । नाना अनेके । 'विनञ्भ्यां नानाञौ न सह' (५.२.२७) इति नशब्दान्नाञ्प्रत्ययः । जयाङ्काः विजयचिह्नानि यासां ताः तथाभूताः । रतिपतेः मन्मथमहाराजस्य नासीरं सेनामुखभागः । 'सेनामुखं तु नासीरम्' इत्यमरः । तस्मिन् याः अग्राः परार्ध्याः । 'परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्' इत्यमरः । पताकिकाः वैजयन्त्य इव स्थिताः । 'पताका वैजयन्ती स्यात्' इत्यमरः । स्त्रियो नार्यः ततस्समुद्रात् प्रादुर्बभूवुः प्रादुरासाम्बभूवुरित्यर्थः ॥ तत इति ॥ वीचयस्तरङ्गाः तैः । 'स्त्रियां वीचिरथोर्मिषु' इत्यमरः । आहृता आनीता विद्रुमाणां प्रवाळानि । 'अथ विद्रुमः पुंसि प्रवाळं पुन्नपुंसकम्' इत्यमरः । तेषां लता इव स्थिताः । 'वल्ली तु व्रततिर्लता' इत्यमरः । ते च ते समयाश्च तत्समयाः वर्षाकाल इत्यर्थः । तेषु उपनम्राः उपनता ये पयोधराः मेघाः । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः । तेषां अङ्कस्समीपदेशः । 'अङ्को नाटकविच्छेदे सङ्ख्यायां युधि भूषणे । समीपे रूपके स्थाने मतावुत्सङ्गचिह्नयोः'