2023-06-05 16:40:43 by ambuda-bot
This page has not been fully proofread.
पेमावासः
नैर्मल्यादुपसम्भृताः फणधरस्त्रैणानु बिम्बाश्शतं
स्वस्थानक्षुभितोद्गतामृतारसस्यन्दोपसन्दानतः ।
प्राप्तप्राणसमागमा इव ततः प्रादुर्बभूवुः स्त्रियो
नासीराग्रप्रताकिका रतिपतेर्नानाजयाङ्का इव ॥१३॥
३३९
"
व तंतच विद्रुमलता इव वीचीभिराहताः, तटित इव तत्तत्सम -
योपनम्रपयोधसेत्सङ्गपरिभ्रष्टा, कौस्तुभरत्नपाञ्चालिका इव कौतूहलाय
+
उक्त्वा, शिलादुनन्दने नन्दीश्वरे तिरोहिते अन्तर्हिते सति पुनरपि सरस्वत: समुद्र-
स्यायं सारस्वतः समुद्रसम्बधी इत्यर्थः । 'तस्येदम्' (4-3-120 ) इत्यण । गर्भ: कुक्षिः ।
'कुक्षिश्रणार्मको गर्भो' इत्यमरः । संचुक्षोभ मथित इत्यर्थः ॥ नैर्मल्यादिति ॥
नैर्मल्यान्निर्मलत्वाद्धेतो: उपसम्भृतास्सम्पादिताः स्वं स्वकीयं यत् स्थानं तस्मात्
क्षुमित चालितः अत एव उद्गतः निर्गतो योऽमृतरसः । अथवा स्वस्थानस्य
क्षुभितं क्षोभः। भावे क्तः । तेन उद्गतः विनिर्गतः यः अमृतरसः तस्य स्यन्दः
प्रसृतिः तस्योपसन्दानं सम्बन्धः तस्मात् ततः इत्यर्थः । पञ्चम्यास्तसिः । प्राप्तः संप्राप्तः
प्राणानां समागमः आगमनं यैस्तथाभूताः शतं शतसङ्ख्याकाः फणाधराणां नागानां
याः स्त्रियः तासां सम्बन्धिनः स्त्रैणा: । 'स्त्रीपुंसाभ्यां नञ् स्नौ भवनात्' ( 4-1-87)
इति नञ्प्रत्ययः । तथाभूतानुबिम्बाः प्रतिबिम्बा इव स्थिताः । नाना अनेके ।
'विनञ्ज्यां नानानौ न सह' (5-2-27 ) इति नशब्दाना प्रत्ययः । जयाङ्काः विजय-
चिह्नानि यासां ता:- तथाभूताः । रतिपतेः मन्मथमहाराजस्य नासीरं सेनामुखभागः ।
'सेनामुखं तु नासीरम्' इत्यमरः । तस्मिन् याः अग्राः परार्ध्या: । 'परार्ध्या-
माहरायायात्रीयमश्रियम् इत्यमरः । पताकिका: वैजयन्त्य इव स्थिताः ।
'पताका वैजयन्ती स्यात्' इत्यमरः । स्त्रियो नार्यः ततस्समुद्रात् प्रादुर्बभूवुः प्रादु-
रासाम्बभूवुरित्यर्थः ॥ तत इति ॥ वीचयस्तरङ्गाः तैः । 'स्त्रियां वीचिरथोर्मिषु'
इत्यमरः । आहुता आनीता विद्रुमाणां प्रवाळानि । 'अथ विद्रुमः पुंसि प्रवाळ
पुनपुंसकम् इत्यमरः तेषां लता इव स्थिताः । 'वल्ली तु व्रततिलता' इत्यमरः ।
ते च ते समयाश्च तत्समयाः वर्षाकाल इत्यर्थः । तेषु उपनम्रा : उपनता ये पयो -
घराः मेघाः । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः । तेषां अङ्कसमीपदेशः । 'अङ्को
नाटकविच्छेदे सङ्ख्यायां युधि भूषणे । समीपे रूपके स्थाने मतावुत्सङ्ग चिह्नयो: '
●