2023-08-26 05:10:51 by Bharadwajraki
This page has been fully proofread twice.
अस्मिन्नुत्पलबन्धुरित्यतितनूभूतेऽपि भूतेशितुः
प्रीतिं चिन्तय तावतीमुपचितामिन्दौ ततो वाऽधिकाम् ॥ १२ ॥
तदहमेव प्रसादयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम् । अग्रेभुजे च विश्वेषामग्रपूजनमेतदुचितमाचरितम् । तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्ताम्' इत्यभिधाय तिरोभवति शिलादनन्दने, पुनरपि सञ्चुक्षोभ सारस्वतो गर्भः ।
[commentary]
वेत्यर्थः । 'मुत्प्रीतिः प्रमदो, हर्षः' इत्यमरः । जानीषे ननु जानासि खल्वित्यर्थः भूतानामीशिता अधिपतिः तस्य शिवस्येत्यर्थः । 'भूतेशः खण्डपरशुः' इत्यमरः । अतितनूभूते अत्यन्तकृशेऽपीत्यर्थः । बालत्वादिति भावः । अस्मिन्निन्दौ चन्द्रे उत्पलानां कुवलयानां बन्धुः प्रिय इति हेतोः उपचितामभिवृद्धिं प्राप्तां तावतीं नीलोत्पले यावती प्रीतिस्तावतीमित्यर्थः । प्रीतिं प्रेमविशेषं चिन्तय पश्येत्यर्थः । ततो नीलोत्पलप्रीतेः अधिकां वा प्रीतिं हर्षं चिन्तय जानीहीत्यर्थः । स्वप्रेमास्पदस्यापि यत्प्रेमास्पदं तत्र कस्य वा प्रेम न भवेदिति भावः ॥ तदिति ॥ तत्तस्मादनेन चन्द्रेण भगवतः परमेश्वरस्य कपर्दो जटाजूटः तस्य पदं स्थानं प्रसाधयन् अलङ्करिष्यमाण इत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा (३.३.१३१) इति लट् । तस्य स्थाने शत्रादेशः । ते तव हस्तेन परमात्मानं साम्बशिवं आराधयामि । अत्रापि वर्तमानवद्भावेन लट् । अहमेव परशिवं सम्पूज्य तदा तव हस्तेन पूजा समजनीति भावयामीति भावः ॥ अग्र इति ॥ विश्वेषां देवानां मध्ये, अग्रे, भुजे प्रथमभोक्त्रे क्रतुष्विति शेषः । सूर्याग्निरूपत्वात्तस्येति भावः । अथवा, अग्रे भुजे प्रथमतो विषभोक्त्रे 'अग्रभुक् ईश्वरः' इति शास्त्रादिति भावः । यद्वा, अग्रे भुजे प्रथमतो विषभयात्पालयित्र इत्यर्थः । शिवायेति शेषः । 'भुज पालनाभ्यवहारयोः' इति धातोः क्विप् । परिपालकपूजाकरणस्य प्रथमतो युक्तत्वादिति भावः ।
अग्रपूजनमिति यत् प्रथमसपर्येति यदित्यर्थः । एतत्पूजनं उचितं अर्हं यथा तथा आचरितं अनुष्ठितमित्यर्थः । अथवा, अग्रे भुजे अग्रभुगीश्वर इति प्रथमभोक्त्रे अग्रपूजनं प्रथमतः पूजाकरणमिति यत् एतदाचरितं पूजानुष्ठानं, भावे क्तः । उचितमर्हमित्यर्थः । इति वाऽन्वयो बोध्यः ॥ तदिति ॥ तत्तस्मात् इतोऽन्यानीति शेषः । इदानीमुत्पन्नानि उत्पद्यमानानि चेत्यर्थः । वस्तूनि यथाभिमतं भवतो यथारुचीत्यर्थः । उपयुज्यन्तां उपयुक्तानिकिक्रियन्तामित्यर्थः । इति इत्थमभिधाय
प्रीतिं चिन्तय तावतीमुपचितामिन्दौ ततो वाऽधिकाम् ॥ १२ ॥
तदहमेव प्रसादयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम् । अग्रेभुजे च विश्वेषामग्रपूजनमेतदुचितमाचरितम् । तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्ताम्' इत्यभिधाय तिरोभवति शिलादनन्दने, पुनरपि सञ्चुक्षोभ सारस्वतो गर्भः ।
[commentary]
वेत्यर्थः । 'मुत्प्रीतिः प्रमदो, हर्षः' इत्यमरः । जानीषे ननु जानासि खल्वित्यर्थः भूतानामीशिता अधिपतिः तस्य शिवस्येत्यर्थः । 'भूतेशः खण्डपरशुः' इत्यमरः । अतितनूभूते अत्यन्तकृशेऽपीत्यर्थः । बालत्वादिति भावः । अस्मिन्निन्दौ चन्द्रे उत्पलानां कुवलयानां बन्धुः प्रिय इति हेतोः उपचितामभिवृद्धिं प्राप्तां तावतीं नीलोत्पले यावती प्रीतिस्तावतीमित्यर्थः । प्रीतिं प्रेमविशेषं चिन्तय पश्येत्यर्थः । ततो नीलोत्पलप्रीतेः अधिकां वा प्रीतिं हर्षं चिन्तय जानीहीत्यर्थः । स्वप्रेमास्पदस्यापि यत्प्रेमास्पदं तत्र कस्य वा प्रेम न भवेदिति भावः ॥ तदिति ॥ तत्तस्मादनेन चन्द्रेण भगवतः परमेश्वरस्य कपर्दो जटाजूटः तस्य पदं स्थानं प्रसाधयन् अलङ्करिष्यमाण इत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा (३.३.१३१) इति लट् । तस्य स्थाने शत्रादेशः । ते तव हस्तेन परमात्मानं साम्बशिवं आराधयामि । अत्रापि वर्तमानवद्भावेन लट् । अहमेव परशिवं सम्पूज्य तदा तव हस्तेन पूजा समजनीति भावयामीति भावः ॥ अग्र इति ॥ विश्वेषां देवानां मध्ये, अग्रे, भुजे प्रथमभोक्त्रे क्रतुष्विति शेषः । सूर्याग्निरूपत्वात्तस्येति भावः । अथवा, अग्रे भुजे प्रथमतो विषभोक्त्रे 'अग्रभुक् ईश्वरः' इति शास्त्रादिति भावः । यद्वा, अग्रे भुजे प्रथमतो विषभयात्पालयित्र इत्यर्थः । शिवायेति शेषः । 'भुज पालनाभ्यवहारयोः' इति धातोः क्विप् । परिपालकपूजाकरणस्य प्रथमतो युक्तत्वादिति भावः ।
अग्रपूजनमिति यत् प्रथमसपर्येति यदित्यर्थः । एतत्पूजनं उचितं अर्हं यथा तथा आचरितं अनुष्ठितमित्यर्थः । अथवा, अग्रे भुजे अग्रभुगीश्वर इति प्रथमभोक्त्रे अग्रपूजनं प्रथमतः पूजाकरणमिति यत् एतदाचरितं पूजानुष्ठानं, भावे क्तः । उचितमर्हमित्यर्थः । इति वाऽन्वयो बोध्यः ॥ तदिति ॥ तत्तस्मात् इतोऽन्यानीति शेषः । इदानीमुत्पन्नानि उत्पद्यमानानि चेत्यर्थः । वस्तूनि यथाभिमतं भवतो यथारुचीत्यर्थः । उपयुज्यन्तां उपयुक्तानि