This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
अस्मिन्नुत्पलबन्धुरित्यतितनूभूतेऽपि भूतेशितुः
 

प्रीतितिं चिन्तय तावतीमुपचितामिन्दौ ततो वाऽधिकाम् ॥ १२

 
तदहमेव प्रसादयन्नने॒नंनेन भगवतः " कपर्दपदमाराधयामि हस्तेन
ते परमात्मानम् । अंग्रेभुजे च विश्वेषामग्रपूजनमेतदुचितमाचरितम् ।
तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्ताम्' इत्यभिधाय तिरोभवति
शिलादनन्दने, पुनरपि सञ्चुक्षोभ सारस्वतो गर्भः ।
 

 

 

 
[commentary]
 
वेत्यर्थः । 'मुत्प्रीतिः प्रमदो, हर्षः इत्यमरः । जानीषे ननु जानासि खस्ल्वित्यर्थः
भूतानामी शिता अधिपतिः तस्य शिवस्येत्यर्थः । 'भूतेशः खण्डपरशुः' इत्यमरः ।
अतितनूभूते अत्यन्तकृशेऽपीत्यर्थः । बालत्वादिति भावः । अस्मिन्निन्दौ चन्द्रे
उत्पलानां कुंकुवलयानां बन्धुः प्रिय इति हेतोः उपचितामभिवृद्धिधिं प्राप्तां तावतीं
नीलोत्पले याक्ती प्रीतिस्तावतीमित्यर्थः । प्रीतिं प्रेमविशेषं चिन्तय पश्येत्यर्थः ।
ततो नीलोत्पलप्रीतेः अधिकां वा प्रीतितिं हर्षं चिन्तय जानीहीत्यर्थः । स्वप्रेमास्पद -
स्यापि यत्प्रेमास्पदं तत्र कस्य वा प्रेम न भवेदिति भावः ॥ तदिति ॥ तत्तस्मा-
दनेन चन्द्रेण भगवतः परमेश्वरस्य कपर्दो जटाजूटः तस्य पदं स्थानं प्रसाधयन्
अलङ्करिष्यमाण इत्यर्थः । 'वर्तमान सामीप्ये वर्तमानवद्वा (3-3-131३.३.१३१) इति
लट् । तस्य स्थाने 'शत्रादेशः ।' ते तव हस्तेन परमात्मानं साम्बशिवं आराधयामि ।
अत्रापि वर्तमानवद्भावेन लट् । अहमेव परशिवं सम्पूज्य तदा तव हस्तेन पूजा
समजनीति भावयामीति भावः ॥ अग्र इति ॥ विश्वेषां देवानां मध्ये, अग्रे, भुजे
प्रथमभोक्त्रे क्रतुष्विति शेषः । सूर्याग्मिनिरूपत्वात्तस्येति भावः । अथवा, अग्रे भुजे
प्रथमतो विषभोक्त्रे 'अंग्रभुक् ईश्व:रः' इति शास्त्रादिति भावः । यद्वा, अग्रे भुजे
प्रथमतो विषभयात्पालयित्र इत्यर्थः । शिवायेति शेष:षः । 'भुज पालनाभ्यवहारयोः'
इति धातोः किक्विप् । परिपालकपूजाकरणस्य प्रथमतो युक्तत्वादिति भावः ।

अग्रपूजनमिति यत् प्रथमसपर्येति यदित्यर्थः । एतत्पूजनं उचितं अर्हं यथा तथा
आचरितं अनुष्ठितमित्यर्थः । अथवा, अग्रे भुजे अग्रभुगीश्वर इति प्रथमभोक्त्रे
अग्रपूजनं प्रथमतः पूजाकरणमिति यत् एतदाचरितं पूजानुष्ठानं, भावे क्तः ।
उचितमर्ह मित्यर्थः । इति वाऽम्बन्वयो बोध्यः ॥ तदिति ॥ तत्तस्मात् इतोऽन्या नीति
शेषः । इदानीमुत्पन्नानि उत्पद्यमानानि चेत्यर्थः । वस्तूनि यथाभिमतं भवतो
यथारुचीत्यर्थः । उपयुज्यन्तां उपयुक्तानि कियन्तामित्यर्थः । इति इत्थमभिधाय