2023-08-26 04:58:01 by Bharadwajraki
This page has been fully proofread twice.
ततश्चिन्तित एव सन्निहितो नन्दी शिव इव सभाजितो देवासुरैः समर्पितां मधुसूदनेन शशाङ्करेखामाददानः सादरमिदमवादीत् ।
'किमिव दयितं शम्भोः केन प्रसीदति देव इ-
त्यविरतसमासक्तं चित्तं तवैव हरे हरे ।
तदिह भगवन्माहाभाग्यं तव प्रणुमः कथं
त्वमसि शरणं शैवानां नस्त्वमेव महागुरुः ॥ ११ ॥
जानीषे ननु नाम केशव जगन्नाथस्य नाथस्य नः
प्रीतिं पारमिकीमनन्यसुलभां पुष्पेषु नीलोत्पले ।
[commentary]
भावः ॥ तत इति ॥ ततश्चन्द्राविर्भावानन्तरं चिन्तितः चिन्ताविषय एव सन् सन्निहितः अन्तिकगतः नन्दी नन्दीश्वरः शिवः परमेश्वर इव देवासुरैस्सभाजितस्सन् मधुसूदनेन हरिणा समर्पितामुपहारीकृतां शशाङ्करेखां चन्द्ररेखामाददानः स्वीकुर्वाणः सादरं यथा तथा इदं वचनमवादीत् उवाच ॥ किमिति ॥ हे हरे श्रीविष्णो तव भवत एव चित्तं शम्भोः परमेश्वरस्य किं वस्तु दयितमिव भवेत् । वस्तुगत्या तस्य हेयोपादेययोरभावादिति भावः । देवः परमेश्वरः केन वा कया वा सेवयेत्यर्थः । प्रसीदति प्रसन्नो भवति । 'पाघ्रा --' (३.१.१३७) इत्यादिना सदेस्सीदादेशः । इति इत्थं हरे परमेश्वरे। 'हरः स्मरहरो भर्गः' इत्यमरः । अविरतं सन्ततं समासक्तं सङ्क्रान्तमित्यर्थः । तत्तस्मादिहेदानीं तव महाभागस्य भावो माहाभाग्यं सुकृतमिति यावत् । कथं प्रणुमः स्तुतिं कुर्म इत्यर्थः । अत्यन्तसुकृतशालिन एव शिवभक्तेस्सम्भवादिति भावः । शैवानां शिवभक्तनां नः अस्माकं त्वमेव शरणं रक्षकः । 'शरणं गृहरक्षित्रोः' इत्यमरः । असि भवसि । पालनांशस्य विष्णुकार्यत्वादिति भावः । त्वमेव गुरुः उपदेष्टा । 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । नेत्रकमलसहितसहस्रकमलादिना शिवपूजाकरणात् शिवभक्त्यावश्यकसन्मार्गप्रदर्शकत्वादिति भावः ॥ जानीष इति ॥ हे केशव वासुदेव नः अस्माकं
नाथस्य स्वामिनः जगन्नाथस्य जगदीश्वरस्य शिवस्येत्यर्थः । पुष्पेषु कुसुमानां मध्य इत्यर्थः । नीलोत्पले कुवलये । 'स्यादुत्पलं कुवलयम्' इत्यमरः । अन्यैः पुष्पैः सुखेन लब्धुमशक्यामित्यर्थः । इतरपुष्पदुष्प्रापामिति यावत् । परमैव पारमिकी । स्वार्थे ठक्प्रत्ययः । 'टिड्ढ' (४.१.१५) इत्यादिना ङीप् । तथाभूतां प्रीतिमनुरागं हर्षं