This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
३३७
 
ततश्चिन्तित एव सन्निहितो नन्दी शिव इव सभाजितो देवासुरैः
समर्पितां मधुसूदनेन शशाङ्करेखामाददानः सादरमिदमवादीत् ।

 
'किमिव दयितं शम्भोः केन प्रसीदति देव इ-

त्यविरतसमासक्तं चित्तं तवैव हरे हरे ।

तदिह भगवन्माहाभाग्यं तव प्रणुमः कथं

त्वमसि शरणं शैवानां नस्त्वमेव महागुरुः ॥ ११ ॥

 
जानीषे ननु नाम केशव जगन्नाथस्य नाथस्य नः
 

प्रीतिं पारमिकीमनन्यसुलभां पुष्पेषु नीलोत्पले ।
 

 
[commentary]
 
भावः ॥ तत इति ॥ ततश्चन्द्राविर्भावानन्तरं चिन्तितः चिन्ताविषय एव सन्
सन्निहितः अन्तिकगतः नन्दी नन्दीश्वरः शिवः परमेश्वर इव देवासुरैस्सभाजि -
तस्सन् मधुसूदनेन हरिणा समर्पितामुपहारीकृतां शशाङ्करेखां चन्द्ररेखामाददानः
स्वीकुर्वाण:णः सादरं यथा तथा इदं वचनमवादीत् उवाच ॥ किमिति ॥ हे हरे
श्रीविष्णो तव भवत एव चित्तं शम्भोः परमेश्वरस्य किं वस्तु दयितमिव भवेत् ।
वस्तुगत्या तस्य हेयोपादेययोरभावादिति भावः । देवः परमेश्वर:रः केन वा कया
वा सेवयेत्यर्थः । प्रसीदति प्रसन्नो भवति । 'पात्घ्रा --' ( 3-1-137 ३.१.१३७) इत्यादिना
सदेस्सीदादेशः । इति इत्थं हरे परमेश्वरे। 'हरः स्मरहरो भर्गः' इत्यमरः ।
अविरतं सन्ततं समासक्तं सासङ्क्रान्तमित्यर्थः । तत्तस्मादिहेदानीं तव महाभागस्य भावो
माहाभाग्यं सुकृतमिति यावत् । कथं प्रणुमः स्तुतिं कुर्म इत्यर्थः । अत्यन्तसुकृत-
शालिन एव शिवभक्तेस्सम्भवादिति भावः । शैवानां शिवभक्तनां नः अस्माकं त्वमेव
शरणं रक्षकः । 'शरणं गृहरक्षित्रो: रोः' इत्यमरः । असि भवसि । पालनांशस्य
विष्णुकार्यत्वादिति भावः । त्वमेव गुरुः उपदेष्टा । 'गुरू गीष्पतिपित्राद्यौ'
इत्यमरः । नेत्रकमलसहितसहस्रकमलादिना शिवपूजा करणात् शिवभक्त्यावश्यक
सन्मार्गप्रदर्शकत्वादिति भावः ॥ जानीष इति ॥ हे केशव वासुदेव नः अस्माकं

नाथस्य स्वामिनः जगन्नाथस्य जगदीश्वरस्य शिवस्येत्यर्थः । पुष्पेषु कुसुमानां मध्य
इत्यर्थः । नीलोत्पले कुवलये । 'स्यादुत्पलं कुवलयम्' इत्यमरः । अन्यैः पुष्पैः
सुखेन लब्धुमशक्यामित्यर्थः । इतरपुष्पदुष्प्रापामिति यावत् । परमैव पारमिकी ।
स्वार्थे ठक्प्रत्यय:यः । 'टिड्ढ' ( 4-1-15४.१.१५) इत्यादिना ङीप् । तथाभूतां प्रीतिमनुरागं हर्
 
N - 43
 
षं