2023-08-25 10:54:59 by Bharadwajraki
This page has been fully proofread twice.
अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कनकांशुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुळा एव मुक्ताफलानि, निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागा एव पटवासाः,
मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हारलताः, प्रसवासवा एव परिणामाः, सुधारसस्येत्याचक्षते ।
किं कर्म दुष्कृतमिदं तरुजन्महेतुः
किं वा महत्सुकृतमीदृशकीर्तिमूलम् ।
किं वा [^१]तृतीयमिदमीदृशमन्यदेवे-
त्यद्यापि शाम्यति न वादकथा मुनीनाम् ॥ ९ ॥
[commentary]
धृताक्षमा इव स्वयमुदयाम्बभूवुरिति वाऽन्वयः ॥ अमीषामिति ॥ अखिलानि यानि भुवनानि चतुर्दशापि लोकाः तेष्वद्भुतानि आश्चर्यकराणि । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । तथाभूतानाममीषां सन्तानादिवृक्षाणां किसलयानि पल्लवान्येव । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । कनकमयानि अंशुकानि वस्त्राणि । पीताम्बराणीति यावत् । 'चेलं वसनमंशुकम्' इत्यमरः । जीर्णानि यानि पर्णानि । 'दळं पर्णं छदः पुमान्' इत्यमरः । तान्येव चीनाम्बराणि जीर्णवस्त्राणि इत्यर्थः । मुकुळाः कुड्मला एव । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । मुक्ताफलानि मुक्तामणय इत्यर्थः । 'मुक्ताथ विद्रुमः पुंसि' इत्यमरः । निर्यासाः सृतद्रवीभूतसारांशा एव वैडूर्याणि वैडूर्यमणयः फलानां पाकाः परिपाका एव पद्मरागाः । 'शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । परागाः पुष्परजांस्येव । 'परागस्सुमनोरजः' इत्यमरः । पटवासाः गन्धद्रव्यचूर्णानि । 'प्रसाधिनी कङ्कतिका पिष्टातः पटवासकः' इत्यमरः । मधुकराः भ्रमरा एव । 'मधुव्रतो मधुकरः" इत्यमरः । महेन्द्रोपलाः इन्द्रनीलमणयः प्ररोहा एव लम्बमानजटा एव हारलताः मुक्ताहारादयः प्रसवा एव फलपुष्पाण्येव सुधायाः अमृतस्य रसः स्वादिमा तस्य परिणामाः परिणतय इत्याचक्षत आहुरित्यर्थः ॥ किमिति ॥
तरुजन्मनः हेतुः कारणम् । 'हेतुर्ना कारणं बीजम्' इत्यमरः । दुष्कृतं पापरूपं कर्म
[^१] सुकृतदुष्कृतोभयात्मकं तृतीयं कर्म, न शुद्धं दुष्कृतं, नापि शुद्धं सुकृतमिति भावः ॥