This page has not been fully proofread.

पंचमांश्वासः
 
३३५
 
अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कनकां-
शुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुळा एव मुक्ताफलानि,
निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागा एव पटवासाः,
मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हारलताः, प्रसवासवा एव
परिणामाः, सुधारसस्येत्याचक्षते ।
 
किं कर्म दुष्कृतमिदं तरुजन्महेतुः
किं वा महत्सुकृतमीदृशकीर्तिमूलम् ।
किंवा 'तृतीयमिदमीदृशमन्यदेवे-
त्यद्यापि शाम्यति न वादकथा मुनीनाम् ॥ ९ ॥
 
धृताक्षमा इव स्वयमुदयाम्बभूवुरिति वाऽन्वयः ॥ अमीषामिति ॥ अखिलानि
यानि भुवनानि चतुर्दशापि लोकाः तेष्वद्भुतानि आश्चर्यकराणि । 'विस्मयो-
ऽद्भुतमाश्चर्यम्' इत्यमरः । तथाभूतानाममीषां सन्तानादिवृक्षाणां किसलयानि
पलवान्येव । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । कनकमयानि अंशुकानि
वस्त्राणि । पीताम्बराणीति यावत् । 'चेलं वसनमंशुकम्' इत्यमरः । जीर्णानि यानि
पर्णानि । 'दळ पर्णं छदः पुमान्' इत्यमरः । तान्येव चीनाम्बराणि जीर्णवस्त्राणि
इत्यर्थः । मुकुळाः कुड्मला एव । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । मुक्ताफलानि
मुक्तामणय इत्यर्थः । 'मुक्ताथ विद्रुमः पुंसि इत्यमरः । निर्यासा: सृतद्रवीभूत-
सारांशा एव वैयणि वैडूर्यमणयः फलानां पाकाः परिपाका एव पद्मरागाः ।
'शोणरलं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । परागाः पुष्परजांस्येव ।
'परागस्सुमनोरजः' इत्यमरः । पटवासाः गन्धद्रव्यचूर्णानि । 'प्रसाधिनी
कतिका पिष्टात: पटवासकः' इत्यमरः । मधुकरा: भ्रमरा एव । 'मधुव्रतो
मधुकरः" इत्यमरः । महेन्द्रोपलाः इन्द्रनीलमणयः प्ररोहा एव लम्बमानजटा एव
हारलता: मुक्ताहारादयः प्रसवा एव फलपुष्पाण्येव सुधायाः अमृतस्य रसः
स्वादिमा तस्य परिणामाः परिणतय इत्याचक्षत आहुरित्यर्थः ॥ किमिति ॥
तरुजन्मनः हेतुः कारणम् । 'हेतुर्ना कारणं बीजम्' इत्यमरः । दुष्कृतं पापरूपं कर्म
 
.
 

 
1. सुकृत दुष्कृतोभयात्मकं तृतीयं कर्म, न शुद्धं दुष्कृतं, नापि शुद्धं सुकृतमिति
 
भावः ॥