This page has been fully proofread twice.

च पुनरनपेक्षितमूलशिलानिवेशनायासं, अनाकाङ्क्षितप्रतीहाररचनाप्रयासं, असम्पादितशृङ्गसम्बाधं असम्भावितपरिखामण्डलमाचार इति केवलमभिनिर्वर्तितो नवः प्राकारः । प्रासादः पुनरस्ति वैजयन्त इत्यभूमिरारोहणोपयोगविधुरश्च । सर्वतोऽप्रतिहतचाराणां पौराणाममृतास्वादसुहिताना[^१]मभ्यवहार्येण किं प्रयोजनम् । अपि च पुनरभिलषितमणिकनकभूषणाम्बरसन्दायिषु मन्दारादिशाखिषु न किञ्चिदस्ति क्रेतव्यं विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः । किं च निरन्तरशिवध्याननिर्धूतकल्मषाः, निरतिशयतपोविशेषशोषिताः, वीतरागभयक्रोधमत्सराः, विषयपराङ्मुखाः भुवि परमर्षय इति प्रथामागताः
 
[commentary]
 
प्राप्तः वैषयिकः स चासावानन्दश्च तस्य सुखविशेषस्य अवधिः मर्यादास्थानम् । गिरां परमत्यन्तमगोचरः अविषयः । अमरावती नामेति प्रसिद्धा नगरी अस्तीति सम्बन्धः । नन्वमरावत्या वैषयिकानन्दावधित्वं तदा स्यात् यदि काश्ययोध्यादिपूर्भ्यः निर्माणतः प्रासादतः विपणितः पौरतश्च वा अमरावत्याः वैलक्षण्यं, तदेव नास्तीति चेदत आह ॥ निरालम्ब इति ॥ निरालम्बे निरास्पदे
नभसि वर्तमानतया विद्यमानतया । सर्वे च ते पन्थानश्च सर्वपथाः तान्व्याप्नुवन्ति सर्वपथीनानि । "तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति" (पा.सू. ५.२.७) इति खः । तानि द्वाराणि यस्य तस्य भावस्तत्ता तथा सर्वपथीनद्वारवत्त्वेन चेत्यर्थः । अनपेक्षितः मूलशिलानां निवेशनेन सन्निवेशेन य आयासः स यस्मिन् कर्मणि तत्तथा । अनाकाङ्क्षितः प्रतीहाराणां द्वाराणां । 'द्वारं प्रतीहार' इत्यमरः । रचना निर्माणं तत्र य आयासः प्रयासो यस्मिन् कर्मणि तत्तथा । असम्पादितः अनासादितः शृङ्गाणां शिखराणां सम्बाधस्सम्बन्धो यस्मिन् कर्मणि तत्तथा । 'कूटोऽस्त्री शिखरं शृङ्गं इत्यमरः । असम्भावितः अतर्कितः, परितः खाता परिखा, तस्या मण्डलं वलयो, यस्मिन्कर्मणि तत्तथा । आचारः केवलमिति पुरस्य केनचित्सालेन भवितव्यमिति सम्प्रदायमात्रं, राज्ञः यया कया वा राजधान्या भवितव्यमिति सम्प्रदायमात्रम् । नवः नूतनः प्राकारस्सालः अभिनिर्वर्तितः । वैजयन्त इति प्रसिद्धः प्रासादः पुनः प्रासादस्तु, अभूमिः अविद्यमाना भूमिर्यस्य स तथाभूतः । आरुह्यतेऽनेनेत्यारोहणं निश्रेण्या-
 
[^१] अभ्यवहारेण इति व्याख्यानुसारेण पाठः, कोशस्थपाठस्तु अभ्यवहार्येणेति ।