2023-06-05 16:38:58 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
च पुनश्नपेक्षित मूलशिलानिवेशनायासं, अनाकाङ्क्षितप्रती हाररचना-
प्रयासं, असम्पादितशृङ्गसम्बाधं असम्भावित परिखामण्डलमाचार इति
केवलमभिनिर्वर्तितो नवः प्राकारः । प्रासादः पुनरस्ति वैजयन्त
इत्यभूमिरारोहणोपयोगविधुरश्च । सर्वतोऽप्रतिहत चाराणां पौराणाम-
मृतास्वादसुहिताना 'मभ्यवहार्येण किं प्रयोजनम् । अपि च पुनरभिल-
षितमणि कनकभूषणाम्बरसन्दायिषु मन्दारादिशाखिषु न किञ्चिदस्ति
क्रेतव्यं विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः । किं च निर-
न्तरशिवध्यान निर्घृतकल्मषाः, निरतिशयतपो विशेषशोषिताः, वीतराग-
भयक्रोधमत्सराः विषयपराङ्मुखाः भुवि परमर्षय इति प्रथामागताः
प्राप्तः वैषयिक: स चासावानन्दश्च तस्य सुखविशेषस्य अवधिः मर्यादास्थानम् ।
गिरां परमत्यन्तमगोचरः अविषय: । अमरावती नामेति प्रसिद्धा नगरी अस्तीति
सम्बन्ध: । नन्वमरावत्या वैषयिकानन्दावधित्वं तदा स्यात् यदि काश्ययोध्यादि-
पूर्भ्यः निर्माणतः प्रासादतः विपणितः पौरतश्च वा अमरावत्याः वैलक्षण्यं,
तदेव नास्तीति चेदत आह ! निरालम्ब इति ॥ निरालम्बे निरास्पदे
नभसि वर्तमानतया विद्यमानतया । सर्वे च ते पन्थानश्च सर्वपथाः तान्
व्याप्नुवन्ति सर्वपथीनानि । "तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्र व्याप्नोति"
(पा.सू. 5-2-7) इति खः । तानि द्वाराणि यस्य तस्य भावस्तत्ता तथा सर्वपथीन-
द्वारवत्त्वेन चेत्यर्थः । अनपेक्षितः मूलशिलानां निवेशनेन सन्निवेशेन य आयासः
स यस्मिन् कर्मणि तत्तथा । अनाकाङ्क्षितः प्रतीहाराणां द्वाराणां । 'द्वारं
प्रतीहार ' इत्यमरः । रचना निर्माणं तत्र य आयासः प्रयासो यस्मिन् कर्मणि
तत्तथा । असम्पादितः अनासादितः शृङ्गाणां शिखराणां सम्बाधस्सम्बन्धो
यस्मिन् कर्मणि तत्तथा । 'कूटोऽस्त्री शिखरं शृङ्गं इत्यमरः । असम्भावित:
अतर्कितः, परितः खाता परिखा, तस्या मण्डलं वलयो, यस्मिन्कर्मणि तत्तथा ।
आचारः केवलमिति पुरस्य केन चित्सालेन भवितव्यमिति सम्प्रदायमात्रं, राज्ञः
यया कया वा राजधान्या भवितव्यमिति सम्प्रदायमात्रम् । नवः नूतनः प्राकार-
स्साल: अभिनिर्वर्तितः । वैजयन्त इति प्रसिद्धः प्रासादः पुनः प्रासादस्तु,
अभूमिः अविद्यमाना भूमिर्यस्य स तथाभूतः । आरुह्यतेऽनेनेत्यारोहणं निश्रेण्या-
अभ्यवहारेण इति व्याख्यानुसारेण पाठः, कोशस्थपाठस्तु अभ्यवहार्येणेति ।
"
1.