This page has been fully proofread twice.

प्रथमसमुद्गतामखिलकामदुघामनघां
सुरभिमभिप्रपद्य सुरसिद्धमहर्षिगणे ।
स्तुवति धृताक्षमा इव वदान्यशिखामणयः
सममुदयाम्बभूवुरथ पञ्च [‍^१]महातरवः ॥ ८ ॥
 
[commentary]
 
पूजाकरणसमय इति भावः । यस्याः धेनोः गात्रं शरीरम् । 'गात्रं वपुस्संहननम्' इत्यमरः । तस्मान्निष्यन्दः स्रवणं तेन जातम् । यद्वा निष्यन्दः मूत्रं, तदात्मना जातं तोयं गोमूत्रं त्रिजगतां त्रयाणां लोकानां निर्मलं च तत्पावनञ्चेति विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । निर्मलं सत् पाप विशोधकमित्यर्थः । शमः अन्तरिन्द्रियनिग्रहः धनं धनवद्गोप्यो येषां ते तथाभूताः ऋषय इति यावत् । पुरा भवां पुराणीं अनादिमित्यर्थः । तथा 'पुराणप्रोक्तेषु' इत्यादिट्युलन्ते निपातः । 'टिड्ढाणञ्' (४.१.१५) इत्यादिना ङीप् । अत एव परामुत्कृष्टां वांचं श्रुतिगिरम् । 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या ह्यतस्सर्वाः प्रवृत्तयः' इति शास्त्रादिति भावः । यस्याः धेनोः रूपमिव रूपं यस्यास्तथाभूतामुपासते ध्यायन्ति इत्यर्थः । 'वाचां धेनुमुपासिता' इति श्रुतेः । दिव्या सर्वोत्कृष्टा सा सुरभिः कामधेनुः । 'क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्' इत्यमरः । कवीनां पण्डितानाम् । 'सङ्ख्यावान् पण्डितः कविः' इत्यमरः । वाचं गिरं सुरभीकरोतु मनोहरयत्वित्यर्थः ॥ प्रथमेति ॥ सुराणां सिद्धानां ऋषीणां च गणः सङ्घः तस्मिन् प्रथमं पूर्वं समुद्गतां समुद्भूतां अखिला ये कामाः अपेक्षितार्थाः तेषां दुघा दोग्ध्रीत्यर्थः । 'दुहः कप् घश्च' (३.२.७०) इति कप्प्रत्ययः घश्चान्तादेशः, 'अजाद्यतष्टाप्' (४.१.४) । तथाभूतां सुरभिं धेनुम् । 'सुरभिर्गवि च स्त्रियाम्' इत्यमरः । अभिप्रतिपद्य अभिप्राप्य स्तुवति स्तोत्रं कुर्वति सति । धृता अक्षमा असहनं यैस्तथाभूताः । वदान्या बहुप्रदाः । 'स्युर्वेदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः । तेषां शिखामणयः श्रेष्ठाः पञ्चसङ्ख्याका महातरवः सन्तानमन्दारादयो वृक्षाः स्वयं उदयाम्बभूवुः उत्पन्ना बभूवुरित्यर्थः । ये वदान्यशिखामणयः पञ्च महातरवः
 
[^१] धृताक्षमा इव इति हेतूत्प्रेक्षा । उत्प्रेक्षाद्योतकः इवशब्दः । एकस्या धेनोः प्रतिपक्षभूताः पंचोत्पन्नाः देवतरवः, चेतनवत् अचेतना अपि दातार इत्यप्याशयः ॥