This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
प्रथमसमुद्गतामखिलकामदुघामनघां

सुरभिमभिप्रपद्य सुरसिद्ध महर्षिगणे ।

स्तुवति घृधृताक्षमा इव वदान्यशिखामणयः

सममुदयाम्बभूवुरथ पञ्च [‍^१]महातरवः ॥ ८ ॥
 

 
[commentary]
 
पूजाकरणसमय इति भावः ।: यस्याः धेनोः गात्रं शरीरम् । 'गात्रं वपुस्संहननम् '
' इत्यमरः । तस्मान्निष्यन्दः स्रवणं तेन जातम् । यद्वा निष्यन्दः मूत्रं, तदात्मना जातं
तोयं गोमूत्रं त्रिजगतां त्रयाणां लोकानां निर्मलं च तत्पावनञ्चेति विशेषणयोरपि
मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । निर्मलं सत् पाप विशोध-
कमित्यर्थः । शमः अन्तरिन्द्रियनिग्रहः धनं धनवद्गोप्यो येषां ते तथाभूताः ऋषय
इति यावत् । पुरा भवां पुराणीं अनादिमित्यर्थः । तथा 'पुराणप्रोक्तेषु' इत्यादि-
'ट
ट्युलन्ते निपातः । 'टिड्ढाणञ्' (4-1-15४.१.१५) इत्यादिना ङीप् । अत एव परामुत्कृष्टां
'
वांचं श्रुतिगिरम् । 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी
'
दिव्या ह्यतस्सर्वाः प्रवृत्तयः' इति शास्त्रादिति भावः । यस्याः धेनोः रूपमिव रूपं
यस्यास्तथाभूतामुपासते घ्ध्यायन्ति इत्यर्थः । 'वाचां धेनुमुपासिता' इति
श्रुतेः । दिव्या सर्वोत्कृष्टा सा सुरभि:भिः कामधेनु:नुः । 'क्षत्रियेऽपि च नाभिर्ना
सुरभिर्गवि च स्त्रियाम्' इत्यमरः । कवींवीनां पण्डितानाम् । 'सङ्ख्यावान्
पण्डितः कविः' इत्यमरः । वाचं गिरं सुरभीकरोतु मनोहरयत्वित्यर्थः ॥
प्रथमेति ॥ सुराणां सिद्धानां ऋषीणां च गणः सङ्घः तस्मिन् प्रथमं पूर्
वं समुद्तां समुद्भूतां अखिला ये कामा:माः अपेक्षितार्थाः तेषां दुधाघा दोग्ध्रीत्यर्थः ।
'दुह:हः कप् घश्च' (3-2-70३.२.७०) इति कप्प्रत्ययः घश्चान्तादेश:शः, 'अजाद्यतष्टाप्' (4-1-4 ४.१.४) ।
तथाभूतां सुरभिं धेनुम् । 'सुरभिर्गवि च स्त्रियाम्' इत्यमरः । अभिप्रतिपद्य अभिप्राप्य
स्तुति तवति स्तोत्रं कुर्वति सति । धृता अक्षमा असहनं यैस्तथाभूताः । वदान्या
बहुप्रदाः । 'स्युर्वेदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः । तेषां
'
शिखामणयः श्रेष्ठाः पञ्चसङ्ख्याका महातरव:वः सन्तानमन्दारादयो वृक्षाः स्वयं
'
उदयाम्बभूवुः उत्पन्ना बभूवुरित्यर्थः । ये वदान्यशिखामणय:यः पञ्च महातरवः
 
1. घृ

 
[^१] धृ
ताक्षमा इव इति हेतूत्प्रेक्षा । उत्प्रेक्षाद्योतकः इवशब्दः । एकस्या घेधेनोः
प्रतिपक्षभूताः पंचोत्पन्नाः देवतरवः, चेतनवत् अचेतना अपि दातार इत्यप्याशयः ॥