This page has been fully proofread twice.

साध्वी [^१]गौस्सुरभिर्नाम सागरादुदभूत् स्वयम् ।
गोप्रसूता हि गावी स्यामसाधुश्चेति जानती ॥ ६ ॥
 
स्नातुं वाञ्छति शङ्करोऽपि पयसा स्तन्येन यस्याः स्वयं
तोयं पावनमुत्तमं त्रिजगतां यद्गात्रनिष्यन्दजम् ।
यद्रूपां समुपासते शमधना वाचं पुराणीं परां
सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि ॥ ७ ॥
 
[commentary]
 
भूदित्याह ॥ साध्वीति ॥ साध्वी साधुत्वगुणवती । 'वोतो गुणवचनात्' (४.१.४४) इति वा ङीष् । सुरभिर्नाम सुरभिरिति प्रसिद्धा गौः धेनुः स्वयं गोप्रसूता हि गवा सूता चेत् इत्यर्थः । 'हि हेताववधारणे' इत्यमरः । असाधुः अपभ्रंशभूतः गावी च गावीशब्दवाच्यं च स्यां भवेयं इति इत्थं जानती जानाना सती सागरात्समुद्रादुदभूदुत्पन्ना बभूवेत्यर्थः । नन्वत्र गोशब्दात् 'तस्यापत्यम्' (४.१.९२) इति सूत्रेण अण्प्रत्यये कृते गावीति शब्दः निष्पन्नो भवेत् । स चासाधुः ; श्रीभाष्यकारैः पस्पशाह्निके 'एकैकस्य शब्दस्य बहवोऽपभ्रंशाः' इत्युपक्रम्य 'यथा गोशब्दस्य गावी गीणी गोता गोपूतळिका' इत्यादिना गोशब्दापभ्रंशेषु तस्य पाठात् । एवं च गाविपदार्थे असाधुपदार्थः कथमिति चेन्न । तथाहि 'देवपूर्वं गिरिं ते' इति भारविप्रयोगे 'धनुरुपपदं वेदमन्वादिदेश' इति काळिदासप्रयोगे 'हिरण्यपूर्वं कशिपुं प्रचक्षते' इति माघप्रयोगे च यथाक्रमं देवशब्दपूर्वत्वस्य गिरिशब्दवृत्तित्वेऽपि धनुरुपपदत्वस्य वेदशब्दवृत्तित्वेऽपि हिरण्यशब्दपूर्वत्वस्य कशिपुशब्दवृत्तित्वेऽपि अर्थलक्षणामाश्रित्य देवशब्दपूर्वगिरिशब्दवाच्यमित्याद्यर्थ इति तद्व्याख्यातृभिर्व्याख्यातम् । तथा प्रकृतेऽपि असाधुर्यो गावीशब्दः तद्वाच्यमित्यर्थाश्रयणान्न कोऽपि दोषः ॥ स्नातुमिति ॥ शङ्करश्शिवः । 'शमि धातोः संज्ञायाम्' (३.२.१४) इत्यच्प्रत्ययः । स्वयं यस्याः कामधेनोः स्तनयोर्भवं स्तन्यम् । 'शरीरावयवाद्यत्' (५.१.६) इति यत्प्रत्ययः । तथाभूतेन पयसा क्षीरेण । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । स्नातुं स्नानं कर्तुं वाञ्छति भक्तैः
 
[^१] गोरपत्यं स्त्री - गावी - तस्यापत्यमित्यणि 'टिड्ढाणञ्' (४.१.१५) इत्यादिना ङीप्। गावीशब्दवाच्यत्वे कामधेनोः अपभ्रंशासाधुशब्दवाच्यत्वं स्यात् । साध्वीत्वं = सांधुशब्दवाच्यत्वं, पतिव्रतात्वं, सर्वार्थसाधकत्वं च हीयेत इति सागरादुदभूत् इति श्लेषगर्भाहेतूत्प्रेक्षा ॥