This page has been fully proofread once and needs a second look.

३३३
 
पञ्च माश्वासः
 
साध्वी '[^१]गौस्सुरभिर्नाम सागरादुद्भूत् स्वयम् ।

गोप्रसूता हि गावी स्यामसाधुश्चेति जानती ॥ ६ ॥

 
स्नातुं वाञ्छति शङ्करोऽपि पयसा स्तन्येन यस्याः स्वयं

तोयं पावनमुत्तमं त्रिजगतां यद्द्वागात्रनिष्यन्दजम् ।

यद्रूपां समुपासते शमधना वाचं पुराणीणीं परां
 

सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि ॥ ७

 
[commentary]
 
भूदित्याह ॥ साध्वीति ॥ साध्वी साधुत्वगुणवती । 'वोतो गुणवचनात् ' ( 4-1-44४.१.४४)
इति वा ङीष् । सुरभिर्नाम सुरभिरिति प्रसिद्धा गौः धेनुः स्वयं गोप्रसूता हि गवा
सूता चेत् इत्यर्थ:थः । 'हि हेताववधारणे' इत्यमरः । असाधुधुः अपभ्रंशभूतः गावी
च गावीशब्दवाच्यं च स्यां भवेयं इति इत्थं जानती जानाना सती सागरात्
समुद्रादुदभूदुत्पन्ना बभूवेत्यर्थः । नन्वत्र गोशब्दात् 'तस्यापत्यम्' (4-1-92४.१.९२) इति
सूत्रेण अण्प्रत्यये कृते गावीति शब्दः निष्पन्नो भवेत् । स चासाधु:धुः ;
श्रीभाष्यकारैः पस्पशाह्निके 'एकैकस्य शब्दस्य बहवोऽपभ्रंशाः' इत्युपक्रम्य
'यथा गोशब्दस्य गावी गीणी गोता गोपूतळिका' इत्यादिना गोशब्दा-
पभ्रंशेषु तस्य पाठात् । एवं च गाविपदार्थे असाधुपदार्थः कथमिति चेन्न ।
तथाहि 'देवपूर्वं गिरिं ते' इति भारविप्रयोगे 'धनुरुपपदं वेदमन्वादि-
देश' इति काळिदासप्रयोगे 'हिरण्यपूर्वं कशिपुं प्रचक्षते' इति माघप्रयोगे च
यथाक्रमं देवशब्दपूर्वत्वस्य गिरिशब्दवृत्तित्वेऽपि धनुरुपपदत्वस्य वेदशब्दवृत्तित्वेऽपि
हिरण्यशब्दपूर्वत्वस्य कशिपुशब्दवृत्तित्वेऽपि अर्थलक्षणा माश्रित्य देवशब्दपूर्वगिरि -
शब्दवाच्यमित्याद्यर्थ इति तद्व्याख्यातृभिर्व्याख्यातम् । तथा प्रकृतेऽपि असाधुर्यो
गावीशब्दः तद्वाच्यमित्यर्थाश्रयणान्न कोऽपि दोषः ॥ स्नातुमिति ॥ शङ्करश्शिवः ।
'शमि धातो:तोः संज्ञायाम्' (3-2-14३.२.१४) इत्यच्प्रत्ययः । स्वयं यस्याः कामधेनोः स्तन -
योर्भवं स्तन्यम् । 'शरीरावयवाद्यत्' ( 5-1-6५.१.६) इति यत्प्रत्ययः । तथाभूतेन पयसा
क्षीरेण । 'पय:यः क्षीरं पयोऽम्बु च' इत्यमरः । स्नातुं स्नानं कर्तुं वाञ्छति भक्तैः
 
K
 
1.

 
[^१]
गोरपत्यं स्त्री - गावी - तस्यापत्यमित्यणि 'टिड्ढाणम्ञ्' ( 4-1-15४.१.१५) इत्यादिना
बी
ङीप्। गावीशब्दवाच्यत्वे कामधेनोः अपभ्रंशासाधुशब्दवाच्यत्वं स्यात् । साध्वीत्वं =
सांधुशब्दवाच्यत्वं, पतिव्रतात्वं, सर्वार्थसाधकत्वं च हीयेत इति सागरादुदभूत् इति श्लेषगर्भा
हेतुतूत्प्रेक्षा ॥