2023-06-05 16:40:42 by ambuda-bot
This page has not been fully proofread.
३३३
पञ्च माश्वासः
साध्वी 'गौस्सुरभिर्नाम सागरादुद्भूत् स्वयम् ।
गोप्रसूता हि गावी स्यामसाधुश्चेति जानती ॥ ६ ॥
स्नातुं वाञ्छति शङ्करोऽपि पयसा स्तन्येन यस्याः स्वयं
•तोयं पावनमुत्तमं त्रिजगतां यद्द्वात्रनिष्यन्दजम् ।
यद्रूपां समुपासते शमधना वाचं पुराणी परां
सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि ॥ ७॥
भूदित्याह ॥ साध्वीति ॥ साध्वी साधुत्वगुणवती । 'वोतो गुणवचनात् ' ( 4-1-44)
इति वा ङीष् । सुरभिर्नाम सुरभिरिति प्रसिद्धा गौः धेनुः स्वयं गोप्रसूता हि गवा
सूता चेत् इत्यर्थ: । 'हि हेताववधारणे' इत्यमरः । असाधु अपभ्रंशभूतः गावी
च गावीशब्दवाच्यं च स्यां भवेयं इति इत्थं जानती जानाना सती सागरात्
समुद्रादुदभूदुत्पन्ना बभूवेत्यर्थः । नन्वत्र गोशब्दात् 'तस्यापत्यम्' (4-1-92) इति
सूत्रेण अप्रत्यये कृते गावीति शब्दः निष्पन्नो भवेत् । स चासाधु: ;
श्रीभाष्यकारैः पस्पशाह्निके 'एकैकस्य शब्दस्य बहवोऽपभ्रंशाः' इत्युपक्रम्य
'यथा गोशब्दस्य गावी गीणी गोता गोपूतळिका' इत्यादिना गोशब्दा-
पभ्रंशेषु तस्य पाठात् । एवं च गाविपदार्थे असाधुपदार्थः कथमिति चेन्न ।
तथाहि 'देवपूर्वं गिरिं ते' इति भारविप्रयोगे 'धनुरुपपदं वेदमन्वादि-
देश' इति काळिदासप्रयोगे 'हिरण्यपूर्व कशिपुं प्रचक्षते' इति माघप्रयोगे च
यथाक्रमं देवशब्दपूर्वत्वस्य गिरिशब्दवृत्तित्वेऽपि धनुरुपपदत्वस्य वेदशब्दवृत्तित्वेऽपि
हिरण्यशब्दपूर्वत्वस्य कशिपुशब्दवृत्तित्वेऽपि अर्थलक्षणा माश्रित्य देवशब्दपूर्वगिरि -
शब्दवाच्यमित्याद्यर्थ इति तद्वयाख्यातृभिर्व्याख्यातम् । तथा प्रकृतेऽपि असाधुर्यो
गावीशब्दः तद्वाच्यमित्यर्थाश्रयणान्न कोऽपि दोषः ॥ स्नातुमिति ॥ शङ्करश्शिवः ।
'शमि धातो: संज्ञायाम्' (3-2-14) इत्यचप्रत्ययः । स्वयं यस्याः कामधेनोः स्तन -
योर्भवं स्तन्यम् । 'शरीरावयवाद्यत्' ( 5-1-6) इति यत्प्रत्ययः । तथाभूतेन पयसा
क्षीरेण । 'पय: क्षीरं पयोऽम्बु च' इत्यमरः । स्नातुं स्नानं कर्तुं वाञ्छति भक्तैः
K
1. गोरपत्यं स्त्री - गावी - तस्यापत्यमित्यणि 'टिड्ढाणम्' ( 4-1-15) इत्यादिना
बीप्। गावीशब्दवाच्यत्वे कामधेनोः अपभ्रंशासाधुशब्दवाच्यत्वं स्यात् । साध्वीत्वं =
सांधुशब्दवाच्यत्वं, पतिव्रतात्वं, सर्वार्थसाधकत्वं च हीयेत इति सागरादुदभूत् इति श्लेषगर्भा
हेतुत्प्रेक्षा ॥