This page has been fully proofread once and needs a second look.

मभिभवन्तमिवाखण्डलस्य पश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः [^१]स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्रनिर्वृतस्सर्वतोऽपि विस्मयनीये तदीये गतिचातुर्ये सासूय इव ब्रभूव ।
 
यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम् ।
भूयो भूयः क्षोभमेवाप देवैः दृष्टास्वादास्तव किं ते दयन्ते ॥ ५॥
 
ततश्च ।
 
[commentary]
 
ग्रजन्मभूदेवबाडबाः' इत्यमरश्च । मनोजयः मनोविजयः । मनोनिग्रहः इति च व्यज्यते । आजन्म जनिमारभ्येत्यर्थः । सिद्धः प्राप्तः, सहज इति यावत् । तत्र मनोजयविषये को यत्नः प्रयास इत्यर्थः । इति इत्थं कथयितुं वक्तुं कामो यस्य तथाभूतमिव स्थितम् । 'लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि' (६.१.१४४) इति मकारलोपः । वालधिः लाङ्गूलम्। 'पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः' इत्यमरः । तस्य विक्षेपः उत्क्षेपः, वीजनमिति वाऽर्थः । तेन निर्धूतं निरसितं मेघमण्डलं यस्य तस्य भावस्तत्ता तया । आखण्डलस्य इन्द्रस्य प्राचीनं पुरातनं वाहनं मेघरूपं यानम् । 'सर्वं स्याद्वाहनं यानम्' इत्यमरः । मेघवाहनत्वादिन्द्रस्येति भावः । अभिभवन्तं तिरस्कुर्वन्तमिव स्थितं उच्चैःश्रवसं अनिमेषेण पक्ष्मविक्षेपरहितेन चक्षुषा पश्यन् पद्मनाभः स्वयमङ्गीकृता विधृता हयग्रीवतनुर्मूर्तिर्येन स
तथाभूतः । अध्यापनमात्रेण केवलवेदप्रवचनेन निर्वृतः सुखितः पद्मनाभः श्रीविष्णुः सर्वतोऽपि सर्वप्रकारैरपि विस्मयनीये चित्रीये तदीये उच्चैःश्रवस्सम्बन्धिनि गतयः पञ्चधाराः । 'गतयोऽमूः पञ्चधारा' इत्यमरः । तासु चातुर्यं नैपुण्यं तस्मिन् सासूयः असूया पर उत्कर्षासहिष्णुत्वं तया सहित इव बभूव तस्थिवानित्यर्थः । असूयालक्षणं तु प्राचीनैः 'परोत्कर्षाऽसहिष्णुत्वमसूया परिकीर्तिता' इत्युक्तम् ॥ यावदिति ॥ ते देवासुराः यावद्यावत् यद्यत्कालपर्यन्तमित्यर्थः । सागरं समुद्रं ममन्थुः मन्थनञ्चक्रुः तावत्तावत् तत्कालपर्यन्तं सः समुद्रः एकमेकं श्लाघ्यं वस्तु अर्पयन् वितरन् भूयो भूयः पुनः पुनः देवैः, इदमुपलक्षणं असुरैरित्यर्थः । क्षोभं मथनक्लेशमेव आप प्रापेत्यर्थः । दृष्टास्वादाः अनुभूतस्वादिमानः ते देवासुराः अत्र समुद्रविषये दयन्ते किं अनुगृह्य त्यजन्ति किमिति यावत् । कामधेनुरुद-
 
[^१] हयग्रीवतनुमाश्रित्य पद्मनाभः वेदानध्यापयामासेति कथा ॥