This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
 
मभिभवन्तमिवाखण्डलस्य पश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः
स्वये
[^१]स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्र निर्वृतस्सर्वतोऽपि विस्मयनीये
तदीये गतिचातुर्ये सासूय इव ब्रभूव ।
 
2
 

 
यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम् ।

भूयो भूयः क्षोभमेवांवाप देवैः दृष्टास्वादास्तव किं ते दयन्ते ॥ ५॥
 

 
ततश्च ।
 

 
[commentary]
 
ग्र
जन्मभूदेवबाडबाः' इत्यमरःरश्च । मनोजयः मनोविजयः । मनोनिग्रहः इति च
व्यज्यते । आजन्म जनिमारभ्येत्यर्थः । सिद्धः प्राप्तः, सहज इति यावत् । तत्र
मनोजयविषये को यत्नः प्रयास इत्यर्थः । इति इत्थं कथयितुं वक्तुं कामो यस्य
तथाभूतमिवं स्थितम् । 'लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि' (6-1-144६.१.१४४) इति
मकारलोप: । बापः । वाधि:धिः लाङ्गूलम्। 'पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधि:धिः'
इत्यमरः । तस्य विक्षेपः उत्क्षेपः, बीवीजनमिति वाऽर्थः । तेन निघूर्धूतं निरसितं
मेघमण्डलं यस्य तस्य भावस्तत्ता तया । आखण्डलस्य इन्द्रस्य प्राचीनं पुरातनं वाहनं
मेघरूपं यानम् । 'सर्वं स्याद्वाहनं यानम्' इत्यमरः । मेघवाहनत्वादिन्द्रस्येति
भावः । अभिभवन्तं तिरस्कुर्वन्तमिव स्थितं उच्चैःश्रवसं अनिमेषेण पक्ष्मविक्षे-
परहितेन चक्षुषा पश्यन् पद्मनाभः स्वयमङ्गीकृता विधृता हयग्रीवतनुर्मूर्तिर्येन स

तथाभूत:तः । अध्यापनमात्रेण केवलवेदप्रवचनेन निर्वृतः सुखितः पद्मनाभः
श्रीविष्णुः सर्वतोऽपि सर्वप्रकारैरपि विस्मयनीये चित्रीये तदीये उच्चैःश्रवस्सम्बन्धिनि
गतयः पञ्चधारा:राः । 'गतयोऽमू:मूः पञ्चधारा' इत्यमरः । तासु चातुर्यं नैपुण्यं तस्मिन्
सासूय:यः असूया पर उत्कर्षासहिष्णुत्वं तया सहित इव बभूव तस्थिवानित्यर्थः ।
असूयालक्षणं तु प्राचीनै'नैः 'परोत्कर्षाऽसहिष्णुत्वमसूया परिकीर्तिता' इत्युक्तम् ॥
यावदिति ॥ ते देवासुराः यावद्यावत् यद्यत्कालपर्यन्तमित्यर्थः । सागरं समुद्
ममन्धुः
रं ममन्थुः मन्थनञ्चक्रुः तावत्तावत् तत्कालपर्यन्तं सः समुद्रः एकमेकं श्लाघ्यं वस्तु
अर्पयन् वितरन् भूयो भूयः पुनः पुनः देवैः, इदमुपलक्षणं असुरैरित्यर्थः । क्षोभं
मथनकेक्लेशमेव आप प्रापेत्यर्थ:थः । दृष्टास्वादा:दाः अनुभूतस्वादिमानः ते देवासुराः
अत्र समुद्रविषये दयन्ते किं अनुगृह्य त्यजन्ति किमिति यावत् । कामधेनुरुद-

 
1. इयश्

 
[^१] हयग्
रीवतनुमाश्रित्य पद्मनाभः वेदानध्यापयामासेति कथा ॥