This page has been fully proofread twice.

स च किञ्चिदुदञ्चिताग्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि पदमनलसारथेः, अपहसन्निव हेषारवैरवनितलमात्रसञ्चारशिक्षिता इत्यारट्टजवनायुजान्, सलिलमात्रसञ्चारशीलिनो मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनियन्त्रिता बलीवर्दा इव सन्ततभ्रमणमात्रगर्विता इति सैन्धवानम्भोजबान्धवस्य, मारुतविजयादेव मनांसि जिगाय ।
 
अपि च ।
 
बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितुकाममिव चलप्रोथतया, वालविक्षेपनिर्धूतमेघमण्डलतया वाहनं प्राचीन-
 
[commentary]
 
स चेति ॥ किञ्चिदञ्चितौ ईषदुत्क्षिप्तौ अग्रपादावग्रचरणौ येन स तस्य भावस्तत्ता तया । अनलस्य अग्नेः सारथिरिव सारथिः अनुकूल इत्यर्थः । तस्य वायोरिति यावत् । शिरस्युत्तमाङ्गे पदं पादं, मुहुर्मुहुः आधित्सन्निव निधातुमिच्छन्निवेत्यर्थः । हेषारवैः स्वीयध्वनिभिः आरट्टजाः आरट्टजाताः । 'सप्तम्यां जनेर्डः' (३.२.९७) इति डप्रत्ययः । तथाभूतानश्वान् । वनायुदेशे जाताः वनायुजाः । पूर्ववत् डप्रत्ययः । तानप्यश्वानित्यर्थः । 'वनायुजाः पारशीकाः काम्भोजा बाह्लिका हयाः' इत्यमरः । 'आरट्टजा जानपदा' इति अश्वनाममालायामुक्तम् । अवनितलमात्रे भूतलमात्रे, सञ्चारः तस्मित् शिक्षिता इति
अपहसन्निव अपहासं कुर्वन्निव स्थितः । किञ्च वरुणस्य पश्चिमदिगधिपतेर्वाजिनोऽश्वान् । मत्स्यमण्डूककर्कटा इव मीनभेककुलीरा इवेत्यर्थः । 'भेके मण्डूकवर्षाभू --' 'स्यात्कुळीरः कर्कटकः' इति च अमरः । सलिलमात्रे सञ्चारः तच्छीलिनः तदेकचतुरा इत्यर्थः । इतीत्थमपहसन् । तैलयन्त्रं तैलसम्पत्तिसाधनं अधस्तिलघातकनिखातदारुविशेष इत्यर्थः । तस्मिन् नियन्त्रिताः बद्धाः ये बलीवर्दाः वृषभाः त इव । 'उक्षा भद्रो बलीवर्दः' इत्यमरः । सन्ततम् अनवरतं भ्रमणमात्रं सञ्चारमात्रं तेन गर्विताः उद्धता इति अम्भोजबान्धवस्य सूर्यस्य सैन्धवानपहसन् स च उच्चैःश्रवाः मारुतविजयादेव मनांसि जिगाय पराबभूवेत्यर्थः ॥ अपि चेति ॥ चले चञ्चले प्रोथे घोणे यस्य स तस्य भावस्तत्ता तया । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । बाडबानामश्वानां ब्राह्मणानामिति व्यज्यते । 'वाग्यश्वा बडबा बाडबं गणे' 'द्विजात्य-