This page has been fully proofread once and needs a second look.

३३१
 
स च किञ्चिदुदश्ञ्चिताग्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि
पदमनलसीसारथेः, अपहसन्निव हेपारखैषारवैरवनितलमात्रसञ्चारशिक्षिता
मत्स्यमण्डूककर्क
इत्यारट्का
 
इत्यारद्व
जवनायुजान्, सलिलमात्रसञ्चारशीलिनो
मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनियन्त्रिता बलीव इव सन्तत -
र्दा इव सन्ततभ्रमणमात्रगर्विता इति सैन्धवानम्बोजबान्धवस्य, मारुतविजयादेव
मनांसि जिगाय ।
 

 
अपि च ।
 
पश्चमाश्वासः
 

 
बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितु-
काममित्र चलप्रोथतया, वालविक्षेपनिर्धूतमेघमण्डलतया वाहनं प्राचीन-

 
[commentary]
 
स चेति ॥ किञ्चिदञ्चितौ ईषदुत्क्षिप्तौ अग्रपादावग्रचरणौ येन स तस्य
भावस्तत्ता तया । अनलस्य अग्नेः सारथिरिव सारथि:थिः अनुकूल इत्यर्थः । तस्य
वायोरिति यावत् । शिरस्युत्तमाङ्गे पदं पादं, मुहुर्मुहु:हुः आधित्सन्निव निघाधातु-
मिच्छन्निवेत्यर्थः । हेषारखैःवैः स्वीयध्वनिभिः आरट्टजा:जाः आरट्टजाताः ।
'सप्तम्यां जनेर्ड: डः' ( 3-2-97३.२.९७) इति डप्रत्ययः । तथाभूतानश्वान् । वनायुदेशे जाताः
बनायुंजाः । पूर्ववत् डप्रत्ययः । तानप्यश्वा नित्यर्थः । '
वनायुजाः । पूर्ववत् डप्रत्ययः । तानप्यश्वानित्यर्थः । 'वनायुजाः पारशीकाः
कॉ
काम्भोजा बाहिह्लिका हयाः' इत्यमरः । 'आरट्टजा जानपदा' इति अश्वनाम-
मालायामुक्तम् । अवनितलमात्रे भूतलमात्रे, सञ्चारः तस्मित् शिक्षिता इति

अपहसन्निव अपहासं कुर्वन्निव स्थितः । किञ्च वरुणस्य पश्चिमंदिगधि-
पतेर्वाजिनोऽश्वान् । मत्स्यमण्डूककर्कटा इव मीनभेककुलीरा इवेत्यर्थः । 'मेभेके
मण्डूकवर्षाभू --' 'स्यात्कुळीर:रः कर्कटकः' इति च अमरः । सलिलमात्रे सञ्चार:
रः तच्छीलिन:नः तदेकचतुरा इत्यर्थः । इतीत्थमपहसन् । तैलयन्त्रं तैलसम्पत्ति-
साधनं अधस्तिलघातकनिखातदारुविशेष इत्यर्थः । तस्मिन् नियन्त्रिता:
ताः बद्धाः ये बलीवर्दा:दाः वृषभाः त इव । 'उक्षा भद्रो बलीवर्दः' इत्यमरः ।
सन्ततम् अनवरतं भ्रमणमात्रं सञ्चारमात्रं तेन गर्विताः उद्धता इति अम्भो-
जबान्धवस्य सूर्यस्य सैन्धवानपहसन् स च उच्चैःश्रवाः मारुतविज-
यादेव मनांसि जिगाय पराभूवेत्यर्थः ॥ अपि चेति ॥ चले चञ्चले प्रोथे
घोणे यस्य स तस्य भावस्तत्ता तया । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः ।
बाडबानामश्वानां ब्राह्मणानामिति व्यज्यते । 'वाग्यश्वा बडबा बाडबं गणे' 'द्विजात्य-