This page has been fully proofread once and needs a second look.

लाहलः, चटुलखुरपुटाविद्धदुग्धसागरशीकरासारदुर्दिनदुर्दर्शदिङ्मण्डलः,
सन्ततसलिलनिमज्जनोज्जजनक्लेशसहनाक्षमतया सैन्धव इव[^१] कुमुदबान्धवस्यन्दनसन्दानितः, कोऽपि समुन्मुच्य बन्धनम् उच्चलितो बहिरुच्चैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी ।
 
[^१]आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः ।
सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः ॥ ४ ॥
 
[commentary]
 
उत्सृष्टा वेलाम् उद्वेला निर्मर्यादा इत्यर्थः । ये हेषासंज्ञिकाः हलाहलेत्येवंप्रकारो ध्यनयः । 'धैवतं हेषते वाजी', 'कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः' इति च अमरः । तेषामुन्मेषो विकासः तेन पोषितः वर्धितः कल्लोलानां तरङ्गाणां कोलाहलः कलकलध्वनिर्यस्य स तथाभूतः । 'कोलाहलः
कलकलः' इत्यमरः । चटुलैः, चपलैः खुरपुटैः शफदेशैः । 'शफं क्लीबे खुरः पुमान्' इत्यमरः । आविद्धः आहतः यः दुग्धसागरः क्षीरार्णवः तस्य यानि पयांसि तेषां शीकराः कणाः तेषामासारैः धारासम्पातैः तैरेव दुर्दिनैः मेघच्छन्नदिवसैर्दुर्दर्शं द्रष्टुमशक्यं दिङ्मण्डलं यस्य स तथाभूतः । सलिले निमज्जनोन्मज्जनाभ्यां यः क्लेशः दुःखं उदयास्तमयकालयोरिति भावः । तस्य सहनं तस्मिन् अक्षमतया असमर्थतया, बन्धनं समुन्मुच्य विस्रंसयित्वा बहिरुञ्चलितः उद्गतः कुमुदबान्धवस्य चन्द्रस्य स्यन्दनं रथः तस्मिन् सन्दानितः बद्धः । 'बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्' इत्यमरः । सैन्धवः अश्व इव स्थितः । 'हयसैन्धवसप्तयः' इत्यमरः । कोऽपि अदृष्टपूर्व इत्यर्थः । सज्जीकृतः आरोहणार्हीकृतः यथार्थमनुगतार्थं नाम यस्य सः उच्चैःश्रवा नाम प्रसिद्धो वाजी अश्वः समुन्ममज्ज उत्तस्थावित्यर्थः ॥ आप्य इति ॥ यः उच्चैःश्रवा नामाश्वः गच्छन् आप्योऽपि आप्तुं शक्योऽपि मारुतेन वायुना रंहसा वेगेन अनाप्यः आप्तुमशक्यः इत्युक्तिविरोधः । तदाभासस्तु आप्योऽपीत्यत्र अप्सु भवोऽपीत्यर्थाश्रयणादिति बोध्यम् । पाण्डरः धवळः स तथाभूतः । सैन्धवः अश्वः सैन्धवात् समुद्रात्, गर्भात् कुक्षिदेशात् उत्ततार विनिर्ययावित्यर्थः ॥
 
[^१] शौक्ल्यात् चन्द्ररथबद्धाश्वोत्प्रेक्षा ।
 
[^२] आप्योऽप्यनाप्यः इति विरोधाभासः । अश्वस्य श्रवः श्रोत्रं उच्चैः उन्नतमिति यथार्थनामा ॥