This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
लाहलः, चटुलखुपुटाविद्धदुग्धसागरशीकरासारदुर्दिन
दुर्दर्शदिङ्मण्डलः,
सन्ततसलिलनिमञ्ज्जनोन्मज्जजनक्लेशसहनाक्षमतया
 
दुर्दर्शदिङ्मण्डलः,
सैन्धव इव'[^१] कुमुद
 
9
 
बान्धवस्यन्दनसन्दानितः, कोऽपि समुन्मुच्य बन्धनम् उच्चलितो बहि-
रुच्चैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी ।
2

 
[^१]
आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः ।

सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः ॥ ४ ॥
 

 
[commentary]
 
उत्सृष्टा वेलाम् उद्वेला निर्मर्यादा इत्यर्थः ।
प्रकारो ध्यनयः । 'धैवत हेषते वाजी',
 
ये हेषासंज्ञिकाः हलाहलेत्येवं
प्रकारो ध्यनयः । 'धैवतं हेषते वाजी', 'कश्यं तु मध्यमश्वानां हेषा द्वेह्रेषा
 
>
 
च निस्वनः' इति च अमरः । तेषामुन्मेषो विकास:सः तेन पोषित:तः वर्धितः
कल्लोलानां तरङ्गाणां कोलाहल:लः कलकलध्वनिर्यस्य स तथाभूतः ।
'को लाहल:
लः
कलकल: लः' इत्यमरः । चंटुलै:लैः, चपलैः खुरपुटै:टैः शफदेशैः । 'शफं कीक्लीबे
खुरः पुमान्' इत्यमरः । आविद्धः आहतः यः दुग्धसागरः क्षीरार्णवः
तस्य यानि पयांसि तेषां शीकरा:राः कणाः तेषामासारैः धारासम्पातैः तैरेव
दुर्दिनैः मेघच्छन्नदिवसैर्दुर्दर्शं द्रष्टुमंशक्यं दिङ्मण्डलं यस्य स तथाभूतः ।
सलिले निमज्जनोन्मज्जनाभ्यां यः क्लेशः दुःखं उदयास्तमयकालयोरिति भावः । तस्य
सहनं तस्मिन् अक्षमतातया असमर्थतयांया, बन्धनं समुन्मुच्य विसंस्रंसयित्वा बहिरुञ्चलितः
उद्गतः कुमुदबान्धवस्य चन्द्रस्य स्यन्दनं रथः तस्मिन् सन्दानित: बंतः बद्धः ।
"
'द्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्)' इत्यमरः । सैन्धवः अश्व इव
स्थितः । 'हयसैन्धवसप्तयः' इत्यमरः । कोऽपि अदृष्टपूर्व इत्यर्थः । सज्जी-
कृतः आरोहणाहीँर्हीकृतः यथार्थमनुगतार्थं नाम यस्य सः उच्चैःश्रवा नाम
प्रसिद्धोंधो वाजी अश्वः 'समुन्ममज्ज उत्तस्थावित्यर्थः ॥ आप्य इति ॥ यः उच्चैः-
श्रवा नामाश्वः गच्छन् आप्योऽपि आप्तुं शक्योऽपि मारुतेन वायुना रंहसा
बे
वेगेन अनाप्यः आप्तुमशक्यः इत्युक्तिविरोधः । तदांदाभासस्तु आप्योऽपीत्यत्र
अप्सु भनोवोऽपीत्यर्थाश्रयणादिति बोध्यम् । पाण्डर: धवळ:रः धवळः स तथाभूतः ।
सैन्धवः अश्वः सैन्धवात् समुद्रात्, गर्भात् कुक्षिंषिदेशात् उत्ततार विनिर्ययावित्यर्थः ॥
 
1.

 
[^१]
शौक्ल्यात् चन्द्ररथ बद्धाश्वोत्प्रेक्षा ।
 
2.

 
[^२]
आप्योऽप्यनाप्यः इति विरोधाभासः । अश्वस्य श्रवः श्रोत्रं उच्चैः उन्नत
मिति यथार्थनामा ॥