This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
लाहलः, चटुलखुपुटाविद्धदुग्धसागरशीकससारदुर्दिन
सन्ततसलिलनिमञ्जनोन्मजनक्लेशसहनाक्षमतया
 
दुर्दर्शदिङ्मण्डलः,
सैन्धव इव' कुमुद
 
9
 
बान्धवस्यन्दनसन्दानितः कोऽपि समुन्मुच्य बन्धनम् उच्चलितो बहि-
रुचैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी ।
2 आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः ।
सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः ॥ ४ ॥
 
उत्सृष्टा वेलाम् उद्वेला निर्मर्यादा इत्यर्थः ।
प्रकारो ध्यनयः । 'धैवत हेषते वाजी',
 
ये हेषासंज्ञिकाः हलाहलेत्येवं
'कश्यं तु मध्यमवानां हेषा द्वेषा
 
>
 
च निस्वनः' इति च अमरः । तेषामुन्मेषो विकास: तेन पोषित: वर्धितः
कल्लोलानां तरङ्गाणां कोलाहल: कलकलध्वनियस्य स तथाभूतः ।
'को लाहल:
कलकल: ' इत्यमरः । चंटुलै:, चपलैः खुरपुटै: शफदेशैः । 'शफं कीबे
खुरः पुमान् इत्यमरः । आविद्धः आहतः यः दुग्धसागरः क्षीरार्णवः
तस्य यानि पयांसि तेषां शीकरा: कणाः तेषामासारैः धारासम्पातैः तैरेव
दुर्दिनैः मेघच्छन्नदिवसैर्दुर्दर्श द्रष्टुमंशक्यं दिङ्मण्डलं यस्य स तथाभूतः ।
सलिले निमज्जनोन्मजनाभ्यां यः क्लेशः दुःख उदयास्तमयकालयोरिति भावः । तस्य
सहन तस्मिन् अक्षमता असमर्थतयां, बन्धनं समुन्मुच्य विसंसयित्वा बहिरुञ्चलितः
उद्गतः कुमुदबान्धवस्य चन्द्रस्य स्यन्दनं रथः तस्मिन् सन्दानित: बंद्धः ।
"ब सन्दानितं मूतमुद्दितं सन्दित सितम्) इत्यमरः । सैन्धवः अश्व इव
स्थितः । 'हयसैन्धवसप्तयः' इत्यमरः । कोऽपि अदृष्टपूर्व इत्यर्थः । सज्जी-
कृतः आरोहणाहीँकृतः यथार्थमनुगतार्थ नाम यस्य सः उच्चैःश्रवा नाम
प्रसिद्धों वाजी अश्वः 'समुन्ममज्ज उत्तस्थावित्यर्थः ॥ आप्य इति ॥ यः उच्चैः-
श्रवा नामाश्वः गच्छन् आप्योऽपि आप्तुं शक्योऽपि मारुतेन वायुना रहसा
बेगेन अनाप्यः आप्तुमशक्यः इत्युक्तिविरोधः । तदांभासस्तु आप्योऽपीत्यत्र
अप्सु भनोऽपीत्यर्थाश्रयणादिति बोध्यम् । पाण्डर: धवळ: स तथाभूतः ।
सैन्धवः अश्वः सैन्धवात् समुद्रात्, गर्भात् कुक्षिंदेशात् उत्ततार विनिर्ययावित्यर्थः ॥
 
1. शौक्लयात् चन्द्ररथ बद्धाश्वोत्प्रेक्षा ।
 
2. आप्योऽप्यनाप्यः इति विरोधाभासः । अश्वस्य श्रवः श्रोत्रं उच्चैः उन्नत
मिति यथार्थनामा ॥