This page has been fully proofread twice.

वप्राघातमिवाचरन् शिथिलयन् मन्थानमेवाचलं
हर्षायाजनि पश्यतां दिविषदामैरावणो वारणः ॥ ३ ॥
 
स च बहिर्निःसरन्नशिक्षिताधोरणनियन्त्रणतया मनागप्यगणयन् देवासुरान्, अमृतोपयोगसुहिततया किमप्यनालोकयन् उपनीयमानान् इक्षुलताभारान् उपह्रियमाणानि कदळीकाण्डानि सम्भ्रियमाणानि पिप्पलपल्लवानि, सर्वतः पराममर्श यादांसि ।
 
तमित्थमतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविलयाम्बभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलाहलोन्मेषपोषितकल्लोलको-
 
[commentary]
 
जलधेस्समुद्रादर्धं पिबन् पानं कुर्वन् तनूमभितः शरीरस्य सर्वत इत्यर्थः । 'अभितः परितः' इत्यादिना द्वितीया । शीकरैः अम्बुकणैः आसिञ्चन् सेचनं कुर्वन्निव सुरान् इन्द्रादिदेवान् स्रोतोभिः अम्बुसरणैः । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । आप्लावयन् आप्लवनं कारयन्नित्यर्थः । शीतलयन्निति यावत् । वप्रः तीरम् । 'वप्रोऽस्त्रियां तीरसेतुप्राकारेष्वेव वाचकः' इति भास्करः । तस्मिन् आघातं दन्तप्रहारं, चरन् अनुतिष्ठन् अत एव मन्थानं मन्थनदण्डसदृशमचलं मन्दराद्रिमेव, शिथिलयन् शिथिलं कुर्वन् सन् पश्यतां द्रष्टॄणां दिविषदां देवानां हर्षाय परितोषाय अजनि बभूवेत्यर्थः । रमणीयविग्रहः केषां वा हर्षाय न भवतीति भावः ॥ स चेति ॥ बहिर्निःसरन् निर्गच्छन्, अशिक्षितमनध्यापितम् आधोरणैः हस्तिपकैः, नियन्त्रणं नियमनं प्रह्वीभवनं वा दीनलक्षणं येन स तस्य भावस्तत्ता तया मनागपि देवासुरानगणयन् गणनमकुर्वन्नित्यर्थः । अमृतोपयोगः क्षीरस्य अमृतस्य वा भोजनं तेन सुहिततया तृप्ततया उपनीयमानान् आनीयमानान् इक्षुलतानां भारान् सङ्घातानिति यावत् । किमपि किञ्चिदपि
अनालोकयन् अपश्यन्, उपह्रियमाणानि उपहारीकृतानि कदळीकाण्डानि रम्भास्तम्भान् सम्भ्रियमाणानि संपाद्यमानानि पिप्पलानाम् अश्वत्थानां, पल्लवानि किसलयान्यनालोकयन्नित्यन्वयः । स च ऐरावतः सर्वतः परितः यादांसि जलजन्तून्पराममर्श पस्पर्शेत्यर्थः । स्वभावस्य दुरतिक्रमत्वादिति भावः ॥ तमिति ॥ इत्थं, अतर्कितः अचिन्तित एव उपनिष्क्रान्तं तमैरावतं आलक्षयन्तः पश्यन्तः देवासुराः पुनरर्णवं यावत् आविलयाम्बभूवुः आविलयाञ्चक्रुरित्यर्थः ॥ तावदिति ॥