2023-06-05 16:40:41 by ambuda-bot
This page has not been fully proofread.
पञ्चमाश्वासः
वप्राघातमिवांचरन् शिथिलयन् मन्थानमेवाचलं
हर्षायाजनि पश्यतां दिविषदामैरावणो वारणः ॥ ३ ॥
३२९
१
स च बहिर्निःसरनशिक्षिताधोरणनियन्त्रणतया मनागप्यगण-
यन् देवासुरान् अमृतोपयोगसुहिततया किमप्यनालोकयन् उपनीय-
मानान् इक्षुलताभारान् उपहियमाणानि कदळीकाण्डानि सम्भ्रियमाणानि
पिप्पलपल्लवचि, सर्वतः पराममर्श याददा॑सि ।
• तमित्थमतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविल-
याम्बभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलाहलोन्मेषपोषितकल्लोलको-
जलधेस्समुद्रादर्घ पिबन् पानं कुर्वन् तनूमभितः शरीरस्य सर्वत इत्यर्थः ।
'अभित; परितः' इत्यादिना द्वितीया । शीकरैः अम्बुकणैः आसिञ्चन् सेचनं
कुर्वन्निवं सुरान् इन्द्रादिदेवान् स्रोतोभिः अम्बुसरणैः । 'स्रोतोऽम्बुसरणं स्वतः'
इत्यमरः । आप्लावयन् आप्लवनं कारयन्नित्यर्थः । शीतलयन्निति यावत् । वप्रः
तीरम् । 'वप्रोऽस्त्रियां 'तीरसेतुप्राकारेष्वेव वाचकः' इति भास्करः । तस्मिन्
आघात दन्तप्रहारं, चरन् अनुतिष्ठन् अत एव मन्थानं मन्थनदण्डसदृशमचलं
मन्दराद्विमेव, शिथिलयन् शिथिलं कुर्वन् सन् पश्यतां द्रष्टृणां दिविषदां देवानां
हुर्षाय परितोषाय अजनि बभूवेत्यर्थः । रमणीयविग्रहः केषां वा हर्षाय न
भवतीति भावः ॥ स चेति ॥ बहिर्नि: सरन् निर्गच्छन्, अशिक्षितमनध्यापितम्
आधोरणैः हस्तिपकै;, नियन्त्रणं नियमनं प्रह्वीभवनं वा दीनलक्षणं येन स तस्य
भावस्तत्ता तया मनागपि देवासुरानगणयन् गणनमकुर्वन्नित्यर्थः । अमृतोप-
योगः क्षीरस्य अमृतस्य वा भोजनं तेन सुहिततया तृप्ततया उपनीयमानान्
आनीयमानान् इक्षुलतानां भारान् सङ्घातानिति यावत् । किमपि किञ्चिदपि
अनालोकयन् अपश्यन्, उपहियमाणानि उपहारीकृतानि कदळीकाण्डानि रम्भा-
स्तम्भान् सम्ब्रियमाणानि संपाद्यमानानि पिप्पलानाम् अश्वत्थानां, पल्लवानि किसल-
यान्यनालोकयन्नित्यन्वयः । सच ऐरावतः सर्वतः परितः यादांसि जलजन्तून्
परामर्श पस्पशैत्यर्थः । स्वभावस्य दुरतिकमत्वादिति भावः ॥ तमिति ॥
इत्थं, अतर्कितः अचिन्तित एव उपनिष्क्रान्तं तमैरावतं आलक्षयन्तः पश्यन्तः
देवासुराः पुनर्रर्णवं यावत् आविलयाम्बभूवुः आविलयाञ्चक्रुरित्यर्थः ॥ तावदिति ॥
N-42