This page has been fully proofread twice.

विष्टिग्रहणशङ्कया विनिर्गतः स्वयमेव बहिरिव केनापि पथा विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत् ।
 
परिचलितदुग्धवेलापरिचयविमलस्य मन्दरस्य गिरेः ।
अभ्यर्णमुपसरन्नयमर्भक इव तस्य सन्ददृशे ॥ २ ॥
 
आजिघ्रन्निव पुष्करेण जलधेरर्धं पिबन् शीकरैः
[^१]आसिञ्चन्नभितस्तनूमिव सुरान् स्रोतोभिराप्लावयन् ।
 
[commentary]
 
उदक एव सन्ततमनवरतं या वप्रक्रिया तिर्यग्दन्तप्रहाररूपा तस्यां परिशीलनमभ्यासः तेन संसक्तैः लग्नैः दुग्धसागरे यानि सरोजानि तेषां नाळैरिव स्थितैः । वज्रवलयैः वज्रमणिखचितकटकैः वलयिताः वेष्टिताश्चत्वारो दन्ताः यस्य स तथाभूतः । विष्टिः बलात्कारः । 'मास्यां मूले लग्नकचे विष्टिर्नरकपातने ।
बलात्कारे च भद्राख्यकरणे कर्मवेतने' इति नानार्थरत्नमाला । तया ग्रहणं स्वीकारः तस्माच्छङ्कां भयं तया । सन्ततं भुवो भारः भरणं तेन परिश्रान्ताः परिश्रमं प्राप्ता ये दिगन्तदन्तावळाः दिग्गजाः तेषां राजिः पङ्क्तिः तस्याः दृष्टिपथात् दृङ्मार्गात् । ल्यब्लोपे पञ्चमी । केनापि अज्ञातेनेत्यर्थः । पथा मार्गेण
निलीय दृगविषयीभूय स्वयमेव अप्रेरित एवेत्यर्थः । बहिः विनिर्गतः समागत इव स्थितः । विस्मयनीयः आश्चर्यकरः विग्रहश्शरीरं यस्य स तथाभूतः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । महान् उरुः ऐरावतो नाम प्रसिद्धो मतङ्गजो गजः प्रादुरभूत् प्रादुर्बभूवेत्यर्थः ॥ परिचलितेति ॥ अयमैरावतो नाम गजः । परिचलिता सेविता या दुग्धवेला क्षीरसमुद्रतटं तस्याः परिचयः सम्बन्धः तेन विमलः मलरहितः तथाभूतस्य । पाठान्तरे -- परिचलिता या दुग्धवेला दुग्धविकृतिः फेनमिति यावत् । तस्याः परिचय इत्यर्थः । 'अब्ध्यम्बुविकृतौ वेला' इत्यमरः । मन्दरस्य गिरेः मन्दराद्रेरित्यर्थः । अभ्यर्णमन्तिकदेशे । 'उपकण्ठान्तिकभ्यर्ण' इत्यमरः । परिचरन् सञ्चरन् तस्य गिरेरर्भकः डिम्भ इव । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । सन्ददृशे जनैर्दृष्ट इत्यर्थः ॥ आजिघ्रन्निति ॥ ऐरावणसंज्ञकः वारणो गजः पुष्करेण शुण्डया । 'पुष्करं करिहस्ताग्रे' इत्यमरः । आजिघ्रन्निव गन्धग्रहणं कुर्वन्निव
 
[^१] गजस्य स्वभावोक्तिरिदं पद्यम् ॥