This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
विष्टिग्रहणशङ्कया विनिर्गतः स्वयमेव बहिरिव केनापि पथा
विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत् ।

 
परिचलितदुग्धवेलापरिचय विमलस्य मन्दरस्य गिरेः ।

अभ्यर्णमुपसरन्नयमर्भक इव तस्य सन्ददृशे ॥ २ ॥

 
आजिघ्रन्निव पुष्करेण जलधेरर्धं पिबन् शीकरैः

[^१]
आसिञ्चन्न भितस्तनूमिव सुरान् स्रोतो भिराप्लायन् ।
 
३२८
 
वयन् ।
 
[commentary]
 
उदकोवं सन्ततमनवरतं या वप्रक्रिया तिर्यग्दन्तप्रहाररूपा तस्यां परिशीलन-
मभ्यासः/ तेऩ, संसक्तैः लमै:ग्नैः दुग्धसागरे यानि सरोजानि तेषां नाळैरिव
स्थितैः । वज्रवलयैः वज्रमणिखचितकटकैः वलयिताः वेष्टिताश्चत्वारो दन्ताः
यस्य स तथाभूतः । विष्टिः बलात्कार:रः । 'मास्यां मूले लग्नकचे विष्टिर्नरकपातने ।

बलात्कारे च भद्राख्यकरणे कर्मवेतने?' इति नानार्थरत्नमाला । तया ग्रहणं
स्वीकारः तस्माच्छङ्कां भयं तया । सन्ततं भुवो भारः भरणं तेन परिश्रान्ताः
परिश्रमं प्राप्ता ये दिगन्तदन्तावळा:ळाः दिग्गजाः तेषां राजि:जिः पङ्क्तिः तस्याः
दृष्टिपथात् दृङ्मार्गात् । ल्यब्लोपे पञ्चमी । केनापि अज्ञातेनेत्यर्थः । पथा मार्गेण
मि

नि
लीय दृगविषयीभूय स्वयमेव अप्रेरित एवेत्यर्थः । बहि:हिः विनिर्गतः समागत
इव "स्थितः । विस्मयनीय:यः आश्चर्यकर:रः विग्रहश्शरीरं यस्य स तथाभूतः ।
'"शरीर वर्ण्यरं वर्ष्म विग्रहः"' इत्यमरः । महान् उरु:रुः ऐरावतो नाम प्रसिद्धो मतङ्गजो गज:
जः प्रादुरभूत् प्रादुर्बभूवेत्यर्थः ॥ परिचलितेति ॥ अयमैरावंतो नाम गजः ।
परिचलिता सेविता या दुग्धवेला क्षीरसमुद्रतटं तस्याः परिचयः सम्बन्ध:धः तेन
विमल:
विमलः मलरहितः तथाभूतस्य । पाठान्तरे -- परिचलिता या दुग्धवेला
 
दुग्धविकृति:तिः फेनमिति यावत् । तस्याः परिचय इत्यर्थः । 'अब्ध्यम्बुविकृतौ
 
M
 
वेला)' इत्यमरः । मन्दरस्य गिरेः मन्दराद्रेरित्यर्थः । अभ्यर्णमन्तिकदेशे ।
'उपकण्ठान्तिक/भ्यर्"' इत्यमरः । परिचरन् सेञ्चरन् तस्य गिरेरर्भक:कः डिम्भ
इव'ए'- 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । सन्ददृशे जनैर्दृष्ट इत्यर्थः ॥
आजिघ्रन्निति ॥ ऐरावणसंज्ञकः वारणो गजः पुष्करेण शुण्डया ।
'पुष्करं, हि करिहस्तायेग्रे' इत्यमरः । आजिघ्रन्निव गन्धग्रहणं कुर्वन्निव
 
1.

 
[^१]
गजस्य स्वभावोक्तिरिदं पद्यम् ॥
 
F