This page has been fully proofread twice.

अथ पञ्चमाश्वासः ॥
 
आलोड्यमानः पुनरेकतानैः
आमूलमब्धिस्सुरदैत्यसङ्घैः ।
प्रादुष्करिष्यन् परमामृतं तत्
प्रासीददीशान[^१] इव क्रमेण ॥ १ ॥
 
ततश्च ततः क्षोभ्यमाणात्सजातीयमन्दरसङ्घर्षमसहमानतया समुत्थित इव मैनाकभूधरः, परिगळत्कलुषमदजलासारपरिजिहीर्षया निर्वासित इव भुवि नैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तुभिः, सलिल एव सन्ततवप्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरोजनाळैरिव वज्रवलयैरावेष्टित चतुर्दन्तः,
सन्ततभूभारपरिश्रान्तदिगन्तदन्तावळराजदृष्टिपथान्निलीय
 
[commentary]
 
विद्यावितरणशीलं विद्याधीशं विरिञ्चिहरिवन्द्यम् ।
विश्वाधिकविबुधेड्यं विजयोपास्यं विनौमि विषकण्ठम् ॥
 
आलोड्येति ॥ एकतानाः अनन्यवृत्तयः । 'एकतानोऽनन्यवृत्तिः' इत्यमरः । तथाभूतैः सुरदैत्यसङ्घैः आमूलं मूलावधि आलोड्यमानः मथ्यमानः अब्धिः पुनः समुद्रस्तु तत्परमामृतं उत्कृष्टामृतं प्रादुष्करिष्यन् उत्पादयिष्यन् सन् क्रमेण ईशानः परमेश्वर इव प्रासीदत् प्रससादेत्यर्थः । 'पाघ्राध्मा' (७.३.७८) इत्यादिना सदेः सीदादेशः, कर्तरि लङ् ॥ तत इति ॥ ऐरावत उद्बभूवेत्याह । ततः
क्षुभ्यमाणान्मथ्यमानात् अर्णवात् समुद्रात् सजातीयः पर्वतत्वरूपैकजातिविशिष्टः यो मन्दरः तस्मात्सङ्घर्षणं मथनरूपाभिभवं असहमानः अनङ्गीकुर्वाणः तस्य भावस्तत्ता तया समुत्थितः समुद्गतः मैनाकभूधर इव स्थितः । नैर्मल्यं निर्मलत्वं तस्मिन् विषये यदैकमत्यं एकविधत्वेनावस्थानबुद्धिरित्यर्थः । तेनास्थिता विद्यमानाः तथाभूतैः आन्तरैः समुद्रान्तर्गतैः जन्तुभिः प्राणिभिः परिगळन्ति परितः स्खलन्ति यानि मदजलानि तेषामासारः धारासम्पातः तस्य परिजिहीर्षा परिहर्तुमिच्छा तया भुवि निर्वासितः निष्कासित इव स्थितः सलिले
 
[^१] ईशानः प्रसादं कृतवान्, अब्धिरपि ऐरावणसुधादिदानेन प्रससाद इति समुच्चयोपमा ॥