This page has not been fully proofread.

अथ पञ्चमाश्वासः ॥
 
आलोड्यमानः पुनरेकतानैः
आमूलम ब्धिस्सुरदैत्यसङ्घैः ।
प्रादुष्करिष्यन् परमामृतं तत्
प्रासीददीशान' इव क्रमेण ॥ १ ॥
 
S
 
ततश्च ततः
 
क्षोभ्यमाणात्सजातीय मन्दरसङ्घर्षमसहमानतया समुत्थित
 
Be
 
इव मैनाक भूधरः परिगळत्कलुष मदजलासारपरिजिहीर्षया निर्वासित
इव भुवि नर्मल्यैकमत्यस्थितैरान्तरैजन्तुभिः, सलिल एव सन्ततव -
 
संसक्तैर्दुग्धसागरसरोजनाळैरिव
सन्ततभूभारपरिश्रान्तदिगन्तदन्तावळराजदृष्टिपथानिलीय
 
वज्रवलयैरावेष्टित
 
प्रक्रियाशील
चतुर्दन्तः
 
सभी विद्यावितरणशील विद्याधीशं विरिञ्चिहरिवन्धम् ।
 
-विश्वाधिकविबुधेडयं विजयोपास्य विनौमि विषकण्ठम् ॥
आलोड्येति ॥ एकतानाः अनन्यवृत्तयः ' एकतानोऽनन्यवृत्ति: ' इत्यमरः ।
तथाभूतैः सुरदैत्यसङ्घैः आमूलं मूलावधि आलोडयमानः मध्यमानः अब्धिः
पुनः समुद्रस्तु तत्परमामृतं उत्कृष्टामृतं प्रादुष्करिष्यन् उत्पादयिष्यन् सन् क्रमेण
ईशानः परमेश्वर इव प्रासीदत् प्रससादेत्यर्थ: । 'पाप्राध्मा' (7-3-78) इत्यादिना
सदे: सीदादेशः, कर्तरि लङ् ॥ तत इति ॥ ऐरावत उद्बभूवेत्याह । ततः
क्षुभ्यमाणान्मध्यमानात् अर्णवात् समुद्रात् सजातीयः पर्वतत्वरूपैकजा-
तिविशिष्टः यो मन्दरः तस्मात्सङ्घर्षण मथनरूप भिभवं असहमानः अनङ्गीकुर्वा -
णः तस्य भावस्तता तया समुत्थितः समुद्रतः मैनाकभूधर इव स्थितः । नैर्मस्य
निर्मलत्वं तस्मिन् विषये यदैकमत्यं एकविधत्वेनावस्थान बुद्धिरित्यर्थः । तेनास्थिता
विद्यमानाः तथाभूतैः आन्तरैः समुद्रान्तर्गतैः जन्तुभिः प्राणिभिः परिगळन्ति
परितः स्खलन्ति यानि मदज़लानि तेषामासार: धारासम्पातः तस्य परिजिहीर्षा -
परिहर्तुमिच्छा तया भुवि निर्वासितः निष्कासित इव स्थितः सलिले
 
' 1. ईशान: प्रसाद कृतवान्, अन्धिरपि ऐरावणसुधादिदानेन प्रससाद इति समु
चयोपमा ॥