This page has been fully proofread twice.

स्मरन्तः श्रीकण्ठं सममसुरवीरैर्दिविचराः
प्रहृष्यन्तः सिन्धुं प्रमथितुमुपाक्रंसत पुनः ॥ ४४ ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजिश्रीमदप्पय्यदीक्षित-
सोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजयनाम्नि चम्पुकाव्ये
चतुर्थ आश्वासः ॥
 
[commentary]
 
पादारविन्दं स्पृशन्तः स्पर्शनं कुर्वन्तः श्रीकण्ठं नीलकण्ठं स्मरन्तः ध्यायन्तः प्रहृष्यन्तः हर्षं प्राप्नुवन्तस्सन्तः असुरवरैस्समं दिविचरा देवाः सिन्धुं समुद्रं पुनः प्रमथितुं मथनं कर्तुं उपाक्रंसत उपचक्रमुरित्यर्थः । अन्तरायनिवृत्तौ श्रेयस्साधनोद्योगं के वा विवेकिनः त्यजेयुरिति भावः ॥
 
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने चतुर्थाश्वासविवृतिः ॥