This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
स्मरन्तः श्रीकण्ठं सममसुरवी रैर्दिविचराः
 
प्रहृष्यन्तः सिन्धुं प्रमथितुंमुपासत पुनः ॥ ४४ ॥
 
इति श्रीमद्भरद्वाजकुलजंलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्ध निर्वाहक श्रीमन्महाव्रतया जिश्रीमदप्पय्यदीक्षित-
सोदर्य श्रीमदाच्चान्दीक्षित पौत्रेण नारायण दीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजयनाम्नि चम्पुकाव्ये
चतुर्थ आश्वासः ॥
 
पादारविन्दं स्पृशन्तः स्पर्शनं कुर्वन्तः श्रीकण्ठं नीलकण्ठं स्मरन्तः ध्यायन्तः
प्रहृष्यन्तः हर्ष प्राप्नुवन्त सन्तः असुरखरैस्समं दिविचरा देवाः सिन्धुं समुद्रं पुनः
प्रमथितुं मथनं कर्तुं उपासत उपचक्रमुरित्यर्थः । अन्तरायनिवृत्तौ श्रेयस्साघ-
नोद्योगं के वा विवेकिनः त्यजेयुरिति भावः ॥
 
इति श्रीमद्भारद्वाज वेल्लालेमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने चतुर्थाश्वासविवृतिः ॥
 
ta