This page has been fully proofread twice.

काममग्रे सहैवास्वहे । कालस्त्वयमेषामत्येति सुधाप्रदानस्य, तदद्य वियोगेन मे नार्हसि वैक्लव्यमधिगन्तुम् ।
 
'भवानिति [^१]भवानीति पश्य भेदः कियानयम् ।
विग्रहं प्राप्तयोरेकं विश्लेषः क इवावयोः ॥' ४३ ॥
 
इति प्रसादयन्निन्दुशेखरः, प्रदक्षिणीकृत्य सहस्रशः, पादावाधाय मूर्ध्नि, परिरम्य निर्भरं बाहुभ्यां, विसृष्टः कथञ्चिदपि विश्वम्भरेण, पश्यत्सु देवासुरेषु, पार्वतीसहितस्तिरोदधे ।
 
तदनु च ।
 
'स्तुवन्तो दिव्याभिः स्तुतिभिरभिसङ्गम्य शतशः
स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः ।
 
[commentary]
 
अन्यादृशीं असदृशीं भवतो मयि प्रीतिं भक्तिं जानामि वेद्मीत्यर्थः ॥ काममिति ॥ अग्रे समुद्रमथनानन्तरं काममत्यन्तं सहैव मिळित्वैव आस्वहे वर्तावहे ॥ काल इति ॥ एषां देवानां सुधाप्रदानस्य अमृतप्रदानस्य मथनस्य कालः समयस्तु अत्येति अतिगच्छतीत्यर्थः । तत्तस्मादद्य मे वियोगेन विश्लेषेण वैक्लव्यं खेदमधिगन्तुं नार्हसि, वियोगखेदस्य अनवसर इति भावः ॥ भवानिति ॥
भवानिति विष्णुरिति भवानीति पार्वतीत्येवम्प्रकारः अयं भेदः वैरूप्यं कियान् ईकारमन्तरा भवान् भवानीतिशब्दानुपूर्व्योस्सर्वतस्साम्यादिति भावः । एकं विग्रहं शरीरं प्राप्तयोरावयोः विश्लेषः वियोगः कः केक्वेत्यर्थः ॥ इतीति ॥ इति इत्थं प्रसादयन् अनुग्रहं कुर्वन् इन्दुशेखरः चन्द्रचूडः विश्वम्भरेण विष्णुना सहस्रशः प्रदक्षिणीकृत्य मूर्ध्नि स्वशिरसि पादौ शिवचरणौ आधाय स्थापयित्वा बाहुभ्यां निर्भरं दृढं परिरभ्य आलिङ्ग्य कथञ्चित्कृच्छ्रेणेत्यर्थः । विसृष्टः उज्झितस्सन् देवासुरेषु पश्यत्सु दर्शनं कुर्वत्सु सत्सु पार्वती गिरिजादेवी तया सहित एव तिरोदधे अन्तर्दधे ॥ तदन्विति ॥ दिव्याभिः अबाधितार्थाभिः स्तुतिभिः स्तोत्रैः स्तुवन्तः गुणान् कथयन्तः, शतशः अनेकशः, सङ्घीभूयेति यावत् । अभिसङ्गम्य आगत्य कोटीरैर्मकुटैः कैटभभिदः श्रीविष्णोश्चरणकमलं
 
[^१] हरिहराभेदं शिववचनेन द्रढयति ॥