This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
काममग्रे सहैवास्वहे । कालस्त्वयमेषामत्येति सुधाप्रदानस्य, तदद्य
वियोगेन मे नार्हसि वैक्कृब्लव्यमधिगन्तुम् ।
 
"

 
'
 
भवानिति [^१]भवानीति पश्य भेदः कियानयम् ।

विग्रहं प्राप्तयोरेकं विश्लेषः क इवावयोः ॥' ४३ ॥
 
"
 

 
इति प्रसादयन्निन्दुशेखरः, प्रदक्षिणीकृत्य सहस्रशः पादावाधाय
मूर्ध्नि, परिरम्य निर्भरं बाहुभ्यां, विसृष्टः कथञ्चिदपि विश्वम्भरेण,
पश्यत्सु देवासुरेषु, पार्वतीसहितस्तिरोदधे ।
 

 
तदनु च ।
 

 
'स्तुवन्तो दिव्याभिः स्तुतिभिरभिसङ्गम्य शतशः

स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः ।
 

 
[commentary]
 
अन्यादृशीं असदृशीं भवतो मयि प्रीतितिं भक्तितिं जानामि वेझीद्मीत्यर्थः ॥ काममिति ॥
अग्रे समुद्रमथनानन्तरं काममत्यन्तं सहैव मिळित्यैवैव आस्वहे वर्तावहे ॥
काल इति ॥ एषां देवानां सुधाप्रदानस्य अमृतप्रदानस्य मथनस्य काल :
लः समयस्तु अत्येति अतिगच्छतीत्यर्थः । तत्तस्मादद्य मे वियोगेन विश्लेषेण वैक्लव्यं
खेदमधिगन्तुं नार्हसि, वियोगवेखेदस्य अनवसर इति भावः ॥ भवानिति ॥

भवानिति विष्णुरिति भवानीति पार्वतीत्येवम्प्रकार:रः अयं भेदः वैरूप्यं कियान्
ईकारमन्तरा भवान् भवानीतिशब्दानुपूर्व्येयोस्सर्वतस्साम्यादिति भावः । एकं
विग्रहं शरीरं प्राप्तयोरावयोः विश्लेष:षः वियोगः कः केत्यर्थः ॥ इतीति ॥ इति
इत्थं प्रसादयन् अनुग्रहं कुर्वन् इन्दुशेखरः चन्द्रचूड:डः विश्वम्भरेण विष्णुना
सहस्रशः प्रदक्षिणीकृत्य मूर्ध्नि स्वशिरसि पादौ शिवचरणौ आघाधाय स्थापयित्वा
बाहुभ्यां निर्भरं दृढं परिरभ्य आलिङ्ग्य कथञ्चित्कृच्छ्रेणेत्यर्थः । विसृष्टः
उज्झितस्सन् देवासुरेषु पश्यत्सु दर्शनं कुर्वत्सु सत्सु पार्वती गिरिजादेवी तया
सहित एव तिरोदघे अन्तर्दघेधे अन्तर्दधे ॥ तदन्विति ॥ दिव्याभिः अबाधितार्थाभिः
स्तुतिभिः स्तोत्रैः स्तुवन्तः गुणान् कथयन्तः, शतशः अनेकशः, सङ्घीभूयेति
यावत् । अभिसङ्गम्य आगत्य कोटीरैर्मकुटै:टैः कैटभभिदः श्रीविष्णोश्चरणकमलं
 
1.

 
[^१]
हरिहरामेभेदं शिववचनेन द्रढयति ॥