2023-07-04 13:38:16 by Bharadwajraki
This page has been fully proofread twice.
अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुस्सहस्रेषु ।
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥१०॥
अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाचर्याणां, आकरो रत्नानां, अवर्धिर्वैषयिकानन्दस्य,[^१]किमपरमगोचरे गिराममरावती नाम नगरी। तत्र च निरालम्बे नभसि वर्तमानतया सर्वपथीनद्वारतया
[commentary]
अधिकार:रः सामर्थ्यम्, दूरे दूरतः । यथाकथञ्चित्सम्पादितस्य मृदुतरस्य नवनीतस्य नवनीतभक्षणस्य च दृष्टप्रातिस्विकरूपेणानुभूयमानत्वाच्छिवचरितानि विषभक्षणादीनि साकल्येन वर्णयितुं सामर्थ्यं नास्ति, अस्माकन्तु तद्वर्णने स्वरूपयोग्यतैव नास्तीति किमु वक्तव्यमिति भावः । कविः स्वस्य कार्तान्तिकसिद्धान्तपरिशीलनमस्तीति बोधयितुं ग्रन्थनिर्माणकालशकादिकं कथयन् यशोनिमित्तभूतं ग्रन्थस्य नाम निर्दिशति ॥ अष्टेति ॥ अष्टभिरधिका त्रिंशत् । तथा उपस्कृतानि मिश्रितानि सङ्घटितानीति यावत् । तानि च यानि सप्तभिरधिकानि शतानि च तैरधिकानि च तानि यानि चत्वारि सहस्राणि च तेषु । अङ्कानां वामगत्यनुरोधेन (४७३८)
अष्टत्रिंशदुत्तरसप्तशताधिकचतुस्सहस्रसङ्ख्याकेष्वित्यर्थः । कलिवर्षेषु कलियुगस्य वत्सरेषु गतेषु अतीतेषु सत्सु । अयं नीलकण्ठविजयः तन्नामककृतिविशेषः, प्रथितः किल निर्मितः खलु । मयेति शेषः । बुद्धिस्थत्वादयमिति सिद्ध[^२]वन्निर्देश इति भावः । वर्ण्यमानसमुद्रमथनोपयोगिनीं कथां प्रस्तौति । अस्तीति ॥ समस्ताश्च ते सुराश्चासुराश्च सुरासुराः निखिलदेवराक्षसाः तेषां स्तोमः सङ्घः, तेन वन्दिते चरणारविन्दे यस्य तथाभूतस्य । भगवतो महेन्द्रस्य स्थानं रक्षणीयं स्थानम् । अमृतं अन्धः अन्नं येषां ते अमृतान्धसः तेषां देवानां । 'भिस्सास्त्री भक्तमन्धोऽन्नम्' इत्यमरः । आस्थानं आलयमात्रम् । निरुपसर्गस्य स्थानशब्दस्य रक्षणीयस्थानमर्थः । आङ्पूर्वस्य आलयमात्रमर्थः, शब्दशक्तिस्वाभाव्यात् । आश्चर्याणां विचित्राणां आयतनं निवास:सः । रत्नानां श्रेष्ठवस्तूनामाकरः 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । विषयाश्शब्दादयः तेभ्य आगतः
[^१] परमगोचरः इति व्याख्यानुसारी पाठः कोशस्थपाठस्तु किमपरमगोचरे इति ।
[^२] "वैयाकरणसिद्धान्तकौमुदीयं विरच्यते" इतिवदिति भावः ॥
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥१०॥
अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाचर्याणां, आकरो रत्नानां, अवर्धिर्वैषयिकानन्दस्य,[^१]किमपरमगोचरे गिराममरावती नाम नगरी। तत्र च निरालम्बे नभसि वर्तमानतया सर्वपथीनद्वारतया
[commentary]
अधिका
अष्टत्रिंशदुत्तरसप्तशताधिकचतुस्सहस्रसङ्ख्याकेष्वित्यर्थः । कलिवर्षेषु कलियुगस्य वत्सरेषु गतेषु अतीतेषु सत्सु । अयं नीलकण्ठविजयः तन्नामककृतिविशेषः, प्रथितः किल निर्मितः खलु । मयेति शेषः । बुद्धिस्थत्वादयमिति सिद्ध[^२]वन्निर्देश इति भावः । वर्ण्यमानसमुद्रमथनोपयोगिनीं कथां प्रस्तौति । अस्तीति ॥ समस्ताश्च ते सुराश्चासुराश्च सुरासुराः निखिलदेवराक्षसाः तेषां स्तोमः सङ्घः, तेन वन्दिते चरणारविन्दे यस्य तथाभूतस्य । भगवतो महेन्द्रस्य स्थानं रक्षणीयं स्थानम् । अमृतं अन्धः अन्नं येषां ते अमृतान्धसः तेषां देवानां । 'भिस्सास्त्री भक्तमन्धोऽन्नम्' इत्यमरः । आस्थानं आलयमात्रम् । निरुपसर्गस्य स्थानशब्दस्य रक्षणीयस्थानमर्थः । आङ्पूर्वस्य आलयमात्रमर्थः, शब्दशक्तिस्वाभाव्यात् । आश्चर्याणां विचित्राणां आयतनं निवा
[^१] परमगोचरः इति व्याख्यानुसारी पाठः कोशस्थपाठस्तु किमपरमगोचरे इति ।
[^२] "वैयाकरणसिद्धान्तकौमुदीयं विरच्यते" इतिवदिति भावः ॥